पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/९७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

हिन्दुधर्मशास्त्र. ७० ( १०२.). दत्तक घेणारा व भ्यावयाचा मुलगा यांच्या पूर्व नात्याच्या संबंधानें ह- रकती हा वर्ग तिसरा. यासंबंधानें ज्याच्या आईशी तिच्या कुमारिकास्थितीत विवाहं स- शास्त्र झाला नसता तो पुत्र घेतां येणार नाहीं असें मि० सदर्लंड यानी प्रथम आपल्या ग्रंथांत लिहिलें तेंच पुढे सर टी. स्ट्रेंज यांणीं" उचलिलें; तेंच मद्रास हायकोर्टानें आपल्या त्पन्नत्वनैयत्यात् || अतस्तेनान्यकृतगर्भाधानाद्युपनयनान्तसंस्कारयुक्तत्वं बोध्यते । बीजिनः पितुरुपनयनेऽधिकारात् अन्यकृतोपनयनान्तसंस्काराअपि दत्ताद्यास्तनयाः संस्कृताः कृतद- त्रिमादिविधानाः निजगोत्रेणैव पुत्रतां सम्यक् यान्ति प्राप्नुवन्ति दत्रिमसंस्कारवशेन पितृ- गोत्रत्यागश्च मनुनोक्तः । एवं पितुर्गोत्रेणेत्यायंप्यस्तु परंतु न पुत्रतां याति चान्यत इत्यस्य अन्यस्य पितृभिन्नस्य प्रतिग्रहीतुः पितृगोत्रेण पुत्रतां न याति किंतु पितृगोत्रं विहायैव पुत्रतां यातीत्यर्थः ॥ चूडेति अन्यथा दासतोच्यत इति चतुर्थपादवशात् निज- .गोत्रेण प्रतिग्रहीतृगोत्रेण अन्यथा दातृगोत्रेण वा चूडादिसंस्काराः कृताश्चेत्तदा ते तनया दत्ताद्या भवन्ति तेषां अदासता दासभिन्नता उच्यते इत्यर्थः । ऊर्ध्वंत्विति एतच्च यथा श्रुतमलग्नकम् । गृहीत्वा पञ्चवर्षीयमित्यनेन विरोधात् ॥ किंतु नहि निन्दान्यायेन पञ्चवर्षप्रतिग्र- हस्तावकं । तत्र प्रथमं पुतेष्टिः कार्या तत्र दातृगोत्रेणोपनयनपरिणयनान्तसंस्काराणां संजात- त्वात् पुत्रंपूतत्वार्था पूत्रेष्टिः पालकेन विहितकर्मान्तरानुष्ठानात्प्रथमं कार्येत्यर्थः ॥ यच्चान्यशा- खोद्भवो दत्तः पुत्रश्चैवोपनायितः || स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति वाक्यं तत् प्रतिवेदमुपनयनपरमिति । केचित्त दत्ताद्या इत्यादिपञ्चवचनानि द्वयामुष्यायणपराणि तथाहि दत्ताद्या इति । अन्यबीजसमुद्भवाः इति अपि दत्ताद्यास्तनयाः प्रतिग्रहीत्रा स्वगोत्रेण . संस्कृता एव कृतजातकर्मादिसंस्कारा एव प्रतिग्रहतिसगोत्रतां प्राप्नुवन्तीत्यर्थः । द्वयामुप्यायण एकगोत्रः स इति भावः । पितुर्गोत्रेणेति । आचुडान्तं जनकगोत्रेण यः संस्कृत: सोन्यस्यैव पुत्रतां न याति किंतु द्वयामुष्यायणोप्येकगोत्रो द्विगोत्र इत्यर्थः । चूडेति चूडातः प्राक्तनाः संस्काराश्चेत् पितृगोत्रेण जातास्तदा चूडाप्रभृतयो निजगोत्रेण कृता एव चेत्तदा दत्ताद्यास्त- नया भवन्ति द्वयामुण्यायणा अप्येकगोत्रा इति भावः । चूडायां निजगोत्रानुष्ठानस्यैकगोत्रत्वप्रा- पकत्वात् ॥ चूडायां तत्तद्गोत्रिणः प्रत्यार्पेयशिखाकरणोक्तेः । अन्यथाऽदासता दास वैलक्षण्य- मात्रमुच्यते । एतस्य रिक्थग्राहित्वात् नतु पुत्रत्वमित्यर्थः । ऊर्ध्वंत्विति स्तावकम् | संस्का- रेभ्यः प्रथमं पुत्रेष्टिः कार्येत्यर्थः । यथा च प्रतिग्रहीतृगोत्रेण चूडाकर्म समानगोत्रत्वप्रापकं तथा तद्द्वोत्रेण तच्छाखोक्त विधिनोपनयनं तत्समानशाखीयत्वप्रापकमित्याहान्यशाखोद्भवो दत्त इतीत्याहुः ॥ परंतु एतेषां द्वयामुष्यायणपरत्वेपि न केवलदत्तके विरोध इति शिवम् ॥ १० १६ पृ० १ पं० १२ प० ७०. स्टोक्स पा० ६६४. ७१. व्हा० १ पा० ८३.