पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/९६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

८९ प्र० ३ दासश्च षडेते पुत्रपांसवः ॥ अलाभे पूर्वपूर्वेषां परान्समाभियोजयेत् । पोनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् ॥ दत्ताद्या अपितनया निजगोत्रेण संस्कृताः । आयान्ति पुत्रतां सम्य गन्यत्रीजसमुद्भवाः ॥ पितुर्गोत्रण यः पुत्रः संस्कृतः पृथिवीपते । आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः ॥ चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दासतोच्यते ॥ ऊर्ध्वं तु पञ्चमाद्वर्षान्न दत्ताद्याः सुता नृप । गृहीत्वा पञ्चवर्षीय पुत्रेष्टिं प्रथमं चरेत् || पौनर्भवं तु तनयं जातमात्रं समानयेत् । कृत्वा पौनर्भवं स्तोमं जात- मात्रस्य तस्य वै || सर्वास्तु कुर्यात्संस्कारान् जातकर्मादिकानथ | कृते पौनर्भवस्तोमे सुतः पौनर्भवस्ततः ॥ एक्रोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम् । क्रीता या रमिता मौल्यैः सा दासीति निगद्यते इति ॥ अस्यार्थः । दत्ताद्या इति दत्ताद्याः पुत्राः प्रतिग्रहीतृकर्तृकजात- कर्मादिसकलसंस्कृता एव राज्याही नान्ये | सम्यक् पुत्रतां राज्यार्हत्वमित्यर्थात् || अन्यथा पुत्रतां यान्तीत्येव ब्रूयात् । न तु सम्यगित्यपि । अन्यथा दास उच्यत इत्यत्रापि अन्यथा- ग्रहीतृकर्तृकचूडान्तसंस्काराभावे दासस्तद्वद्वाज्यभागानर्हः अन्यत्र अन्यशब्दप्रयोगस्य मासमग्नि- होत्रं जुहोतीतिवत्तद्धर्मातिदेशार्थत्वात् । एतमेव दासं राज्ये न योजयेदित्यभिधाय दत्तकरा- ज्याधिकारं प्रकृत्यान्यथा दासतोच्यते इत्येतस्य संगतेरिति ॥ पौनर्भवस्तोमः सोमयागप्रभेदः तस्य सुतसंस्कारार्थत्वं अनाहिताम्नीनां तु तादृशयागासंभवेऽपि तद्देवताकश्चरुर्दृष्टव्यः ॥ ब्राह्म- णस्य तु न जन्मतः परिग्रहेऽधिकारः ॥ सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् ॥ पुत्रं पुत्र- गुणैर्युक्तं स ज्ञेयः कृत्रिमः सुत इति मनूक्तकृत्रिमपुत्रलक्षणे गुणदोषविचक्षणं प्रकृतव्यवहारज्ञं न तु बालमिति मेधातिथिविरोधात् ॥ श्राद्धाकरणे दोषः तत्करणे गुण इति गुणदोषावधार- णकुशलमिति सर्वज्ञनारायणविरोधात् सदृशं तुल्यं इमं पुत्रं करोमीति एकस्य पुत्रचिकीर्षा तदन्यस्याहमस्य पुत्रो भवामीति तद्बुभूषया प्रतिगृहीतृसादृश्यवन्तं सकामं कुर्यादिति बौ- धायनसंवादात् । अहमस्य पुत्रो भवामीति यश्च न जातमात्रादाविति रत्नाकरविरोधाच्च त- स्मात्पञ्चाधिकवर्षएव प्रतिग्रहाई इत्येके । अन्ये तु एतत्सर्वमसगोत्रदत्तकपरमित्याहुः ॥ परेतु असगोत्रोपि उपनयनान्तसंस्कारोत्तरमपि परिणीतोपि उप्तन्नपुत्रोपि च दत्तको भवति बाधका- भावात् । शुनःशेषो विश्वामित्रपुत्रः स्वयमेवाभवदिति बहुचब्राह्मणसंवादाच्च शुनःशेपश्चोपवी- तः अनुपनीतस्य वेदाध्ययनासंभवेन वैदिकमन्त्रैः प्राजापत्यादिस्तुताविन्द्रदत्तहिरण्मयरथप्रति- ग्रहे च प्रवृत्त्यनुपपत्तेः । न च स्वयंदत्तक इति वाच्यम् | दत्ताद्यास्तनया इत्यत्राद्यपदेन कृत्रिमादीनामपि ग्रहणेन भवन्मते तस्यापि निषेधात् ॥ न च श्रुतिवशाजातोपनयनः स्ययं- दत्त एव स्वीकार्य इति वाच्यम् || ताई जातोपनयस्य दत्तकस्यापि दुर्वारत्वात् । श्रुत्या दत्ताद्या इत्यस्याप्रामाण्योन्नयनात् ॥ पितुर्गोत्रेणेत्यादेश्च प्रायशः कालिकापुराणांदावदर्शनाच्च ॥ अथवास्तु दत्ताद्या इत्यस्य प्रामाण्यं परंतु अन्यबीजसमुद्भवा इति यथाश्रुतार्थ दत्तादेरन्यो- दत्तकप्रकरण.