पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

३०० हिन्दुधर्मशास्त्र. सम्बन्धसम्भवनिर्णयार्थमपि । अन्यथा पार्थसुभद्रयोरदत्तयोः । सम्बन्धासम्भवशङ्कायां आचा-, र्यकर्तृकोपन्यासस्य तदुपपत्तौ सुधायां गौतमीयोपन्यासस्यालग्नत्वापत्तेः । यादृशदत्तकस्य यथा सापिण्ड्यमुक्तं तत्संततेरपि तथैव तद्बोध्यम् । अतएव यन्मदनपारिजाते उक्तं ' दत्तपु- ज्याः सुतस्य मातुः प्रतिग्रहीतृमातुः कुले त्रिपुरुषं सापिण्ड्यं, दत्तपुत्रस्य स्वजनककुले त्रिपु- रुषं सापिण्ड्यं, दत्तपुत्रस्य स्वजनकप्रतिग्रहीतकुले पाञ्चपूरुषमिति, तत् पूर्वोक्तरीत्या दत्तवि- शेषसन्ततिविषयत्वेनतिविषयत्वेन । इति सापिण्ड्यनिर्णयः "" 66 दत्तपुत्रस्य जननमरणयोः पूर्वापर पित्रोस्त्रिरानं सपिण्डानामेकाहः यद्यपि सपिण्डः पुत्रीकृतः । परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च । - भर्तृपित्रोस्त्रिरात्रं स्यादेकाहस्तु सपि - ण्डगः इति माधवीये हारीतवचनात् । वैजिकादभिसम्बन्धादनुरुन्द्ध्यादधं त्र्यहमिति तादृ- शदत्तकेन पित्रादिमरणे त्रिरात्रं कार्यम् । “ दत्तकश्च स्वयन्दत्तः कृत्रिमः क्रीत एव च । सूतके मृतके चैव त्र्यहाशैौचस्य भागिनः " इति शुद्धिविवेकधृतब्राह्मवचनात् । सपिण्डस्य पुत्रीकरणे तु सपिण्डमरणादिनिमित्तं दत्तकस्य तन्मरणादिनिमित्तं सपिण्डानां दशरात्रमेव निर्विवादम् । सापिण्ड्यञ्च पूर्वोक्तरीत्या व्यवस्थितमा शौचहेतुः । इत्याशौचनिर्णयः 66 धनस्वामिनि मृते तदीयपत्नीदुहित्रादिषु सत्स्वपि दत्तकपुत्र एवं रिक्थं लभते द्वाद- शविधपुत्राभावे पत्नीदुहितरश्चेत्यादिना पत्न्यादीनां रिक्थग्रहणाधिकारप्रतिपादनात् । पश्चा- दुत्पन्नौर से सति तु तदीयचतुर्थीशं लभते पूर्वोदाहृतबौधायनसूत्रात् । विधानमालायान्तु ' दत्तपुत्रे यदा जाते कदाचित् त्वौरसो भवेत् । पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ । अविधाय विधानं यः परिगृह्णाति नन्दनम् । विवाहविधिभाजं तं कुर्यान्नधनभाजनम् । त- स्मिन् जाते सुते दत्ते न कृते च विधानके । तत्स्वं तस्यैव वित्तस्य यः स्वामी पितुरञ्जसा । जातेष्वन्येषु पुत्रेषु दत्तपुत्रपरिग्रहात् । पिता चेद्विभजेद्वित्तं नैवासौ ज्येष्ठभाग्भवेत् " जाते उपनयनान्ते जाते जातकर्मादिविशिष्टतया निष्पादिते इत्यर्थः । तादृशसंस्कारालाभे- त्वाह “ अविधाय ” इति । अविधानं संस्काराविध्यलाभः । नन्दनः प्रकरणात् दत्तकपुत्रः विधाने सति पूर्वश्लोकरीत्या धनलाभमभिप्रेत्य अविधानपक्षे आह तस्मिन्नौरसे दत्तविषये संस्कारविधानेन कृते स औरसः परिग्रहादनन्तरमिति शेषः । ततश्च प्रतिग्रहीत्रा उपनय- नान्तरं संस्कृतस्यैौरससमानांशभागित्वं दत्तकस्य तत्कर्तृकतदन्तसकलसंस्काररहितस्य विवाहमात्रधनलाभो नान्यधनलाभः । सत्यौर से कतिपयसंस्कारलाभे चतुर्थांशलामः इति व्यवस्था ।