पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदीधितिः २९९ सूर्यासावित्री ऋषिः सूर्य्या सावित्री देवता द्वेऽनुष्टुभौ तृतीया जगती चतुर्थी त्रिष्टुप् पञ्चम्य- नुष्टुप् पुनरवदायया पञ्चभिर्जुहुयात् । सर्वत्र सूर्यासावित्र्या इति त्यागः । ततो व्यस्तस- मस्तमहाव्याहृतिभिराज्यं तुला स्विष्टकृदादिहोमशेषं समाप्याचार्याय धेनुं दद्यात् दश-. त्रीन् वा ब्राह्मणान् भोजयेत् । कर्मणः सम्पूर्णतां वाघयित्वा ईश्वरार्पणं कुर्वीतेति शौ- नकोक्तपुत्रप्रतिग्रहप्रकारः । एवं यजुर्वेदिकर्तृको बौधायनोक्तरीत्या प्रयोगो बोद्धव्यः । ततः प्रागसंस्कृतस्य स्वस्तिवाचनं नान्दीश्राद्धादिपूर्वकं जातकर्मादिसंस्कारान् करिष्ये इति विशेषः । अथ दत्तकस्य विवाहापयोगिगोत्रादिनिर्णयः । तंत्र यश्च प्रतिग्रहीत्रा जातकर्मादिभिश्वादिभिर्वा संस्कृतस्तदेकगोत्रः । एतम- भिप्रेत्यैत्र ‘गोत्ररिक्थे जनयितुर्न हरेद्दत्रिमंः सुतः इति ' शास्त्रमपि प्रवृत्तम् । एतदन्यस्तु प्रति- ग्रहीत्रोपनयनमात्र संस्कृतस्तदुत्तरप्रतिगृहीतो वा देवरातवत् द्विगोत्र एवेति व्यवस्था प्रागवादि । तथाप्येषा व्यवस्था अभिवादनश्राद्धादिगतगोत्रनिर्देशार्था विवाहे तु दत्तकमात्रेण बीजेप्रति- ग्रहीत्रोः पित्रोर्गोत्रप्रवरवर्जनं कार्यं प्रवरमञ्जर्यादिग्रन्थेषु तन्निषेधोकेः । इति गोत्रनिर्णयः 46 अथ सापिण्ड्य विवेचनम् । तत्र गोतमः । " ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो वीजिनंश्च मातृबन्धुभ्यः पञ्चमात् " इति । " वसुदेवाङ्गजाता च कौन्तेयस्य विरुध्यते " इति वार्तिकव्याख्यानसरे न्यायसुधाकृता दत्तकविषयमेतदित्यङ्गीकृत्य कुन्त्या जनककुले साप्तपुरुषं सापिण्ड्यं इति व्याख्यातं तद्विष- यत्वेनैव सापिण्ड्यमीमांसायां अतः कुलद्वयेपि साप्तपुरुषं सापिंड्यं विधीयते । पैठीनसिस्तु ' त्रीन् मातृतः पञ्च पितृतः पुरुषानतीत्य उद्वहेत् " इत्याह । व्याख्यातं तदपरार्केन दत्त- कादिपुत्रान् पितृपक्षतो निवृत्त पिण्डगोत्रार्षेयान् प्रत्येतदुच्यते पंच पितृत इति । ततश्च प्रतिग्रहीतृपितृकले साप्तपुरुषं सापिण्ड्यं प्रतीयते । प्रतिग्रहीतृमातापितृकुलयोस्त्रिपुरुषं सापि - ण्ड्य इति प्राञ्चः । अत्र व्यवस्थोक्ता सपिण्डदीपिकायां दत्तक्रीतादीनां जनकगोत्रेण उपन- थने कृते जनककुले साप्तपुरुषं सापिण्ड्यम् । ग्रहीतृमातृपितृकुले निर्वाप्यपिण्डलक्षणं त्रिपुरुषं सापिण्ड्यम् । प्रतिग्रहीतृगोत्रेणोपनयने तत्कुले साप्तपुरुषमिति उपनयनमात्रे कृते पाञ्च पूरुषं, नातकर्माद्युपनयनान्ते कृते साप्तपूरुषमिति पैठिनसिवचः साफल्यांय व्याख्येयम् । न केवलं दत्तकस्य परियनार्थमेवैष सापिण्ड्येोपन्यासः किन्तु तत्सन्ततेः तत् पित्रादिकुलोत्पन्नैः सह