पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

२९८ हिंदुधर्मशास्त्र अथ बहुचाधिकारिक शैौनकोक्तरीत्या पुत्रपरिग्रहप्रयोगः । पूर्वेद्युः कृतोपवासः । " वाससी कुण्डलेछत्रमुष्णीषञ्चाङ्गुलीयकम् । आचार्य धर्मसं- 'युक्तं वैष्णवं वेदपारगम् । बर्हिः कुशमयञ्चैत्र इध्मं पालाशमेवच । एतान्यात्दृत्यवन्धूंश्च ज्ञा- तीनाहृत्य यत्नतः । " पवित्रपाणिः प्राणानायम्य देशकालौ संकीर्च ममाप्र जस्त्वप्रयुक्त- पैतृकर्णापाकरणपुन्नामनरकत्राणद्वारा श्रीपरमेश्वरश्रीत्यर्थं शौनकोक्तविधिना पुत्रप्रति- ग्रहमहं करिष्ये तदङ्गत्वेन स्वस्तिपुण्याहमिति वचनं, आचार्यवरणं, आचार्यस्य मधुपर्केणार्हणं, विष्णुपुजनं, बन्धुवर्गब्राह्मणेभ्योऽन्नदानञ्च करिष्ये तदादौ निर्विघ्नता- सिद्ध्यर्थं गणपतिपूजनमहं करिष्ये इति संकल्प्य वरणान्तं कृत्वा मधुपर्कान्ते पितॄणां कुलदेवतानां गुरूणां च प्रीत्यर्थ ब्राह्मणान् बन्धूंश्व भोजयेत् । तत आचार्यो देशकालमै संकीर्त्य यजमानानुज्ञया पुत्रप्रतिग्रहाङ्गत्वेन विहितहोममहं करिष्ये इति संकल्प्या- ग्निप्रतिष्ठापनान्तं कृत्वा ध्यानं कुर्यात् । चसुवी आज्येन इत्यन्तेऽत्र प्रवानं सकृदग्निं षड्- वारं सूर्यासावित्रीं, चरुणाग्निं वायुं सूर्य, प्रजापतिश्चाज्येन शेषेण स्विष्टकृतमित्यादि अष्टाविंशतिमुष्टान्तूष्णीं निरूप्य तावत्कृत्वः प्रोक्ष्य आज्योत्पवनान्तं कृत्वा ब्राह्मगैः सह दातुः समक्षं गच्छेत् दातारं प्रति अस्मै पुत्रं देहीति ब्राह्मणद्वारा याच्ञां कारयेत् । ततो दाता आचम्य प्राणानायम्य देशकालौ संकीर्त्य परमेश्वरप्रीत्यर्थं पुत्रदानमहं करिष्ये इति संकल्प्य गणपतिं संपूज्य यथाशक्तिचंदनादिना प्रतिग्रहीतारं संपूज्य ये यज्ञेति पंचानां नाभानेदिष्टो मानव ऋषिः विश्वेदेवा देवता आद्याश्च तस्रस्त्रिष्टुभः पञ्चम्यनु- ष्टुप् पुत्रदाने विनियोगः ॐये यज्ञेन दक्षिणया सम्परियज्ञिरे इत्यन्ते इमं पुत्रं तव पैतृक- र्णापाकरणपुन्नामनरकत्राणसिद्ध्यर्थमात्मनश्च श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं सम्प्रददे न मम प्रतिगृह्णातु पुत्रं भवान् इत्यन्ते प्रतिग्रहीतृहस्ते साक्षतं जलं क्षिपेत् ततः प्रतिग्रहीता देवस्यत्वेति मन्त्रेण हस्तद्वयेन परिगृह्य स्वाङ्के उपवेश्य अङ्गादङ्गादिति शिशुमूर्द्धनि जित् । ततो युववस्त्राणीति वस्त्रं परिधाप्य तूष्णीमुष्णीषं बध्वा कुङ्कुमार्दिना तिलकं कृत्वा हिरण्यरूप इत्यादिना कुण्डलादिभिरलङ्कृत्य छत्रेणाच्छादितं बालं नृत्यगीतवाद्यैः स्वस्तिनोमिमीतेत्यादिमन्त्रैश्च गृहमानीय हस्तौ पादौ प्राक्षाल्याचम्याग्नेः पश्चिमतो मातुरुत्सङ्गे स्वदक्षिणतोचालमुपवेश्य आचार्यदक्षिणतः स्वयं उपविशेत् तत आचार्यः बहिरास्तरणाद्याज्यभागान्तं कुर्यात् । चरुमवदानाविधनादाय यस्त्वाहृदाकरिणेति द्वयोरात्रेयो वसुश्रुतऋषिरग्निदेवता त्रिष्टुप् छन्दः पुत्रप्रतिग्रहाङ्गहोमे विनियोगः 1 यस्त्वाहृदा स्वस्ति ऋग्द्वयं क्रमेण पठित्वा स्वाहेति पुनरवदाय तुभ्यमग्न इतिमन्त्रस्य सूर्यासावित्रीं ॐतुभ्यमग्ने पर्यवहन् स्वाहा सूर्यासावित्र्या इदं० जुहुयात् । यजमानः अग्नये इदं सूर्यासावित्र्यनुष्टुप् पुत्रप्रतिग्रहांगहोमे १ पुनरवदाय सोमो दददिति पंचानां