पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६११

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तदीधितिः २९५ कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै । सर्वास्तु कुर्यात् संस्कारान् जातकर्मादिकान्नरः । कृते पौनर्भवष्टमे सुतः पौनर्भवःस्मृतः ॥” इति कालिकापुराणादिति । तन्न, एषां बहुषु का- लिकापुराण पुस्तकेषु अदर्शनात् निर्मूलनीति केचित; अन्ये तु समूरत्वे पे आद्यश्लोकत्रय-- स्यासगोत्रदत्तकविषयत्वात् तत्सहपठितत्वेनान्त्य श्लोकस्याऽपि तद्विषयत्वमेवाचितं, अतः स- गोत्रस्य दत्तकस्य नायं नियम इति परिणीतोऽपि दत्तको भवेदित्याहुः वस्तुतस्तु नासगोत्रेष्वप्युपनयनानन्तरं दत्तकत्वसामान्य निषेधः कर्तुं शक्यः, पुरा- णवचसा वैदिकलिङ्गविरुद्धस्मृतिवचसां प्रामाण्यासम्भवस्य बलाबलाधिकरणवार्त्तिकराणकसि- द्धत्वात् । उक्तपौराणिकवाक्यानां बहुब्रब्राह्मणविरोधः । 66 तथाहि दत्ता इति तावत् कृत्रिमादीनामपि ग्रहणमिति निर्विवादं ततश्च स्वगोत्रेण संस्कृतः स्वयन्दत्तोऽपि पुत्रो भवतीति प्रतीयते । बढ्नब्राह्मणे च शुनःशेपो विश्वामित्रपुत्रः स्वयमभवदिति स्फुटमुक्तम् । अथ शुनःशेपो विश्वामित्रस्याङ्गमाससाद सहोवाचाजीगर्तः सोऽयं वसिष्ठ ऋषिः पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमं मह्यं अवसति सहदेवरातो विश्वामित्र आसेति 1 ""

अत्र भाष्यं, शुनःशेप इत्यूर्ध्वं कस्य पुत्रोऽस्त्विति विचारे सति तदीयेच्छैव नियामिके- ति महर्षीणां वचनं श्रुत्वा शुनःशेपः स्वेच्छया विश्वामित्रपुत्रत्वमङ्गीकृत्य सहासादनी- यमङ्कमाससाद इति । नचासावनुपनीतः तादृशस्य वेदाध्ययनासम्भवात् । अनधीतवे- दस्य च वैदिकमन्त्रकरणकप्राजापत्यादिस्तुतौ प्रवृत्त्ययोगात् । इत्थं दत्तसुवर्णरथप्रतिग्रहे समन्त्रके प्रवृत्त्ययोगाच्च । श्रूयते चैषा । “ तस्माइंद्र स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शवदिन्द्र इतीति " 1 'प्रतीयाय ' प्रतिजग्राह इति व्याख्यातं भाष्ये । 4 अतः पौराणिकवचसां समूलत्वेऽपत्थिं योजना । अन्यबीजसमुद्भवा इति दत्ताद्या- स्तनंया जातकर्म्मप्रभृतिभिः : संस्कारैर्निजगोत्रेण चेत् संस्कृता भवेयुस्तदैव प्रतिग्रहीतुः सम्यक् पुत्रतां यान्ति, सम्यक्त्वं तु समानगोत्रत्वविशिष्ट साधारण्यम् । तत्र यद्यपि जातकर्मादिषु साक्षात् गोत्रविनियोगो न श्रूयते तथापि तदङ्गभूतवृद्धिश्राद्धद्वारको गोत्रसम्बन्ध बोध्यते । 66 चूडायां तु साक्षादेव तत्सम्बन्धः । तत्तोत्रिणं प्रति आर्षेयसंख्यया शिखाकरण- विधानात् । शिखा अपि हि कर्त्तव्याः कुमारस्यार्थसंख्यया " इति । अत एव द्विती- यवचनेऽप्यन्यत इति तसिल्प्रत्ययं षष्ठ्यर्थे स्वीकृत्य चकारञ्चावधारणार्थमङ्गीकृत्येत्थं योज्यम् । आचूडान्तं जनकगोत्रेण यः संस्कृतः स प्रतिग्रहीतुः पुत्रो भवन्नपि नान्यस्यैव तां याति किन्तु यामुष्यायणो द्विगोत्रो भवतीति, तथा चूडायाश्च प्राक्क्रू संस्कारेषु