पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

२९४ हिन्दुधर्मशास्त्र. संस्थापयत मे यज्ञम् ' इत्युक्त्वा हवनीयं प्रविष्टे यजमाने ऋत्विग्भिः क्रियमाणे सर्वसमा- पनस्य यजमानानुज्ञातत्ववत् । वस्तुतस्तु नापुत्रस्य लोकोऽस्तीत्यादिशास्त्रेण पुत्राकरणस्य दोपहेतुत्वे मंत्रनुज्ञानरहि- तां प्रति पुत्रीकरणाभ्यनुज्ञापरं अदः शास्त्रं, न तु निषेवपरं, शास्त्रप्राप्तनिषेवस्यान्याय्य- स्वात् पर्य्युदासे लक्षणाप्रसङ्गादिति सुध्वीभिर्बोध्यम् । 66 न च 'न स्वातन्त्र्यं क्वचित् स्त्रियाः " इति " अभावे ज्ञातयः " इति च भावे ज्ञातिपरतन्त्रत्वात् नापुत्राया विधवाया अधिकारः पुत्रप्रतिग्रहे सिध्यतीति शङ्कितुमप्य- हम् । “ रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास्तु वार्द्धके । अभावे ज्ञातयस्तेषां न स्वा- तंत्र्यं कवित् स्त्रियाः " इति याज्ञवल्क्यः । तयाख्यानोपक्रमे मिताक्षराकारेणोक्तं पाणि- ग्रहणात् प्राक् पिता “कन्यामकार्यकरणाद्रक्षेत् इति । एवञ्च निषिद्धाचरगात् स्त्री निर्तते तत्तदवस्थायां तत्तदधिकार इति वचनस्त्ररसात् व्याख्यानाच्च प्रतीयते न तु विहिताचरणं प्रतिबन्धयति । न च नित्यकाम्यव्रतानामाचरणे ज्ञातिपारतन्त्र्यकृतो विधवानामधिकारप्रतिबन्धः क्व- चिदेशे कैरपि शिष्टैर्भवहियते । विश्व पक्षद्वयावसाने तु " राजा भर्त्ता प्रभुः स्त्रियाः " इति मिताक्षरोदाहृतवचनेन च उक्तरीत्या ज्ञातिरहितानां विधवानां राजाज्ञां विना व्रतादावधिकाराभावः स्यात् । न च व्रतादेः पुत्रप्रतिग्रहे कश्चिद्विशेषः इति महत्पाण्डित्यमाविष्कृतं धर्म्मशास्त्राभिज्ञा- नशून्यैः । • न च प्रतिग्रहमन्त्राभावेनाधिकाराभावोक्तिरपि चटते । अनुज्ञायां सत्यामिवासत्याम- पि तस्यामुक्तरीत्या अधिकारनिर्णये रथकारवन्मन्त्राध्ययनकरूपनासम्भवात् । एतेनानु- ज्ञायां सत्याममन्त्रकः प्रतिग्रह इति निरस्तम् । तस्माद्विधवया स्वीकृतः पुत्रो वृत्तिधनवाक् भवत्येव इति तादृशब्राह्मणस्य वृत्तिप्रतिबन्धं कुर्वतः स्वस्यैवानर्थाय यतन्ते । “यो वै ब्राह्मणवृत्तौ तु प्रतिकूलं समाचरेत् । विड्भुजान्तु कृमीणां स्यादेकः संवत्सरान् बहून् इति शास्त्रादित्यलं पल्लवितेन । 66 29 चूडादिसंस्कारेषु कृतेष्वकृतेषु वा पञ्चवर्षात् प्रागूर्ध्वं च दत्तको ग्रह्यः । यत्तु अकृत- संस्कार एवापूर्णपञ्चमवर्षक एक दत्तकः स्वीकार्यः । दत्ताद्या ये तु तनया निजगोत्रेण संस्कृताः । आयान्ति पुत्रतां सम्यगन्यवीजसमुद्भवाः । पितुर्गोत्रेण यः पुत्रः संस्कृतः पृ- थिवीपते । आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः । चूडाद्या यदि संस्कारा निजगो- त्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दासतोच्यते । ऊर्ध्वंतु पञ्चमाद्वर्षान्न दत्ताद्याः सुता नृप । गृहीत्वा पञ्चवर्षीयं पुत्रेष्टि प्रथमं चरेत् । पौनर्भवं तु तनयं जातमात्रं समानयेत् ।