पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६०९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदीधितिः २९३ किञ्च विरुद्धौ भवदुपन्यस्तौ हेतू, एवकारश्रवणादेव पुंस्त्वस्याविवक्षितत्वात् । अ- श्वमेधे हि अतिदेशप्राप्ताविधिवचनेऽप्राप्तस्यापि षड्विंशतिपदस्य षडूविंशतिरित्येव ब्रूपा- दित्यत्र न विधिः, एवकारार्थविशेषणत्वादित्युक्तं पूर्वमीमांसायाम् । तथा अत्र ' आज्यमेः वावपती ' त्यत्रानन्त्यतृचे अप्राप्तस्याप्यावापस्य तत एवं न विधानमाश्रितम् । तथोत्तरमी- मांसायामपि 'आत्मानमेवा लोकमुपासीत ' इत्यादौ ततएव नोपास्यत्वेनात्मविधानं इत्या- श्रितं विवरणादौ एवञ्च एवकारार्थविशेषणस्य सम्भवत्प्राप्तिकस्याविधेयत्वे कथं तद्विशे- पण पुंस्त्वविवक्षेति कृतबुद्धय एव विदांकुर्वन्तु । यदि परमेवकारमप्येतैरेव 'रश्मिभिरू आक्रमत' इतिवत् कथञ्चिदयोगव्यावृत्त्यर्थ- तया अनुवादमाश्रित्यापुत्रपदार्थो विवक्ष्यते तथापि मलिनः ' स्नायात् ' इत्यत्र मलिनपदमि- व फलकामनाप्रेक्षकत्वेनाधिकारिसमर्पक मेवापुत्रपदं स्वीकार्यम् । ततश्च स्वर्गकामादिगतपुं- स्त्वविवक्षासाधकषाष्ठन्यायेनैव पुंस्त्वाविवक्षासिद्धिरिति प्रथमहेतुद्रयालीकत्वसिद्धिः । • न चापुत्रपदं विवक्षितं स्वीकृत्य, शास्त्रान्तरप्राप्तपुत्रपरिग्रहानुवादेन पुंसैव कर्तव्यो न स्त्रियां इति परिसंख्यास्त्विति शङ्कयम्, तथा सति स्त्रिया कर्तव्यं पुत्रपरिग्रहं प्रति भर्त्रनुज्ञा- नाङ्गविधेरलीकत्वापत्तेः, नापि तृतीयो हेतुः, निषेधवाक्यपर्यालोचनया भर्त्रनुज्ञानस्य प्रतिग्रहाङ्गत्वम् । वदद्भिर्हि तदङ्गत्वेन तद्विधिपरत्वस्याश्रयणीत्वम् । न चाविहिते तदङ्गं भवतीति न्यायात् । ततश्च पुत्रपरिग्रहे भर्त्रनुज्ञां स्वीकुर्यात् इति विधिर्यमधिकारिणं प्रव- तयन्नियमविधितामापद्यते यश्च विधिविषये समर्थस्तमेवावगाहेत इति न सधवां प्रत्ये- व तस्य प्रवृत्तिः तस्यामेव नियमोपजीव्यपाक्षिकप्राप्तेरसम्भवात्, तथैवानुज्ञास्वीकारस्य शक्यत्वाच्च स्वीकृतं विनैव विशेषणं नियमविधित्वालाघवानुरोधेनैव विशेषविषयत्वमुपां- शुयजुषेत्यत्र द्वितीये । एवञ्च तथा " पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः । पितृयज्ञं ततः कुर्य्यात् ततोऽन्वाहार्थकं बुधः " इति वचसा वैश्वदेवाधिकृतसाग्निकप्रतिपिण्डय- ज्ञाङ्गत्वेन वैश्वदेवोत्तरकाढ़तारूपमनुपादेयगुणनियमतापि ज्येष्ठाद्यविभक्ततया तदनधिकृ तसाग्निकस्य पिण्डयज्ञाधिकारो न व्यावर्त्यते, तथा सधवां प्रत्युक्तनियमं कुर्वतापि शास्त्रेण विधवायाश्च पुत्रप्रतिग्रहो न व्यावर्त्यते । नचानुज्ञारूपो गुणोऽनुपादेयो येन नापु- त्रस्य लोकोऽस्तीत्यादिवचनेनावश्यकर्तव्येऽपि सायंकालादिवत् अधिकारमवच्छिन्द्यात् इति सुधीभिरेवालोचनीयम् । अथाङ्गत्वप्रतिज्ञां परित्यज्यापि भर्त्रनुज्ञारहितां प्रतिं प्रतिग्रहनिषेधः क्रियते इत्यु- च्यते । तथापि न विधवाया अधिकारो व्यावर्तयितुं शक्यते । अनुज्ञाशब्दो हि पुम- भिप्रायवचनोऽधीष्टादिशब्दवत् एवञ्च जीवतो मर्त्तस्तादृशाभिप्रायं तज्जीवनदशायां तन्म- रणोत्तरं वा ज्ञातवत्याः कथं नाधिकारः । त्वया पुत्रः स्वीकर्त्तव्य इति शब्दं प्रयुज्यं भर्त्तरि मृते तु विधवा क्रियमाणं पुत्रस्त्रीकरणं भर्त्रनुज्ञयैव कृतं भवतीति स्फुटम् | 'ब्राह्मणाः