पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६०६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

२९० हिन्दुधर्मशास्त्र. द्धतात्पर्यवर्णनासम्भवात् । ‘पुत्रवान्' इत्यत्र मतुना एकहायनोपदे भट्टपादोक्तन्यायेन सं- ख्याविशेषोदासीनपुत्रविशिष्टतामात्रप्रत्यायनाच्च । न चात्र ददातेर मुख्यत्वात् नोक्तविषये प्रवृत्तिरिति शङ्खयं, प्रकृते ददातेरमुख्यताया अनुपदमेव निराकरिष्यमाणत्वात् । पुत्रपदञ्चैारसपरं, जन्यपुंस्त्यवाचिनः पुत्रशब्दस्य तत्रैव मुख्यत्वात् । तेन भ्रातृपुत्र- स्यापि दत्तकादेर्भ्रातृमतोऽपि न ग्रहणं । उत्तरार्द्धे' तेन ' इत्येकवचनात् 'पुत्रिणः ' इति बहुव- घनाच्च बहवोऽप्येकं युगपत् गृह्णीयुः ; युगपत्प्रतिग्रहेण द्रौपदीभाय्यत्विवत् ह्यामुष्यायण- त्ववच्च विलक्षणानेकनिरूपितपुत्र फलकत्वम् । न चात्र सत्रवत् परस्परसहित सर्व- भ्रातृभिः पुत्रग्रहणं, अनिच्छति कस्मिंश्चित् भ्रातरि इच्छतोऽप्येकस्य भातृपुत्राप्रतिग्रहणा- पत्तेः । अन्यैस्तु नैवात्र प्रतिग्रहविविरनुयते । किन्त्वकृतस्यैव भ्रातृपुत्रस्यापृत्रपितृव्य- पुत्रत्वं विधीयते, तेन पुत्रवत् श्राद्वाविकारलामः । तथाच बृहत्तराशरः अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । स एव तस्य कुर्वीत श्राद्धपिण्डोदकक्रिया” इति। 66 1 66 बृहस्पतिरपि " यद्येकजाता बहवो भ्रातरस्तु सहोदराः । एकस्यापि सुते जाते सर्वे ते पुत्रिः स्मृताः । बहीनामेकपत्नीनामेव एव विविः स्मृतः । एका चेत् पुत्रिणी तासां सर्वासां पिण्डदस्तु सः" इति । अत्र सापत्नपुत्रस्यागृहीतस्यापि पिण्डदानाधिकारित्वात् पितृपत्न्यः सर्वा मातरः " इत्यादिशास्त्रात् लोकव्यवहाराच्च पुत्रत्वं निर्विवादं तत्सह- पाठाच्च भ्रातृपुत्रस्याप्यगृहीतस्य पुत्रत्वं प्रतीयते इत्युचितम् । अस्ति चोक्तमनुवाक्येऽपि सहपठितं सापत्नपुत्रस्पागृहीतस्वापि पुत्रत्वविधायकं वाक्यान्तरम् । " सर्वासामेकपत्नी- नामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण पुत्रिण्यो मनुरब्रवीत् " इति । तदपि न अकृतस्यैव भ्रातृपुत्रस्य पुत्रत्वे त्रयोदशपुत्रत्वापत्तेः । तत्र च पुत्रान् द्वादश यानाह नृणां स्वायंभुव मनुः इति द्वादशसंख्याविरोधः । पत्नीदुहितरश्चैव पितरौ भ्रातरस्तथा 1 तत्सुतो गोत्र जो बन्धुः शिष्यः सब्रह्मचारिणः " इति याज्ञवल्क्यीयवचमि भ्रातृपुत्राणां भ्रात्रनन्तरं स्थाननिवेशानुपपत्तिश्च तेषां पुत्रत्वे इतरपुत्रवत् पत्न्याः पूर्वमेव धनग्रहणौचि- त्यात् । व्याख्यातञ्च ‘भ्रातृणामेकजातानाम्' इति वचो विज्ञानेश्वराचार्येण । भ्रातृ- पुत्रस्य पुत्रीकरणसम्भवे अन्येषां पुत्रीकरणनिषेधार्थम् न पुनः पुत्रत्वप्रतिपादनाय, 'तत्सु- त' इत्यनेन विरोधादिति । (4 66 का तर्ह्येतस्य वचसो गतिरिति चेत् “नापुत्रस्य लोकोऽस्ति, जायमानो वै ब्राह्मणस्त्रिभि- ऋणैऋणवा जायते, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः, ब्रह्मचर्येण ऋषिभ्यः" इत्यादि शास्त्रात् लोकव्यवहाराच्च पुत्रत्वं निर्विवादं तद्बोधितस्याप्रजस्त्वदोषस्य निवृत्तिः पुत्रकार्थं द्वादशविधपुत्रभिन्नेनापि भ्रातृसुतेनापुत्र पितृव्यस्य भवतीति ज्ञापनार्थमिति सङ्गच्छते । ' एकस्यापि सुते जातः ' इति, यद्येकः पुत्रवान् भवेत्' इति च जननमात्रेण सत्तामात्रेण