पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६०५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

परिशिष्ट. महाराष्ट्र देशांत मयूखांशिवाय कौस्तुभ चालतात. त्यांतून संस्कार कौस्तुभ नेहेमीं व्यवहारांत लोकांस उपयोगी पडतो, ह्मणून त्यांतील दत्तकप्रकरण भाषान्तरसुद्धां पुढें दाखल केले आहे:- दत्तकदीधितिः परमात्मने नमः । श्रुतिस्मृतिपुराणादिमीमांसान्यायविस्तरम् । विचार्थ्यानन्तदेवेन क्रियते दत्तदीधितिः । तत्रादौ दत्तकेषु ग्राह्याग्राह्यविवेचनम् । तत्र शौनकः “ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः । तदभावेऽसपिण्डेषु अन्यत्र तु न कारयेत् " इति । अत्र सपिण्डेष्वपि भ्रातृपुत्रो मुख्यः, तदभावे सगोत्रः सपिण्डोऽपि यः कश्चित्, तदभावे- sसगोत्रः सपिण्डः, तदभावेऽसपिण्डोऽसगोत्रोऽपि । 66 तत्रापि भागिनेयदौहित्रवर्ज विरुद्धसम्बन्धापत्त्या पुत्रत्वबुद्धयनर्हभ्रातृपितृव्यमातुल- वर्जच त्रयाणां वर्णानां स्वसमानवर्ण एव । तत्रापि देशभेदप्रयुक्त गुर्जरत्वादिजात्या समानजा- तीय एव । सर्वोऽपि सभ्रातृकं एव ज्येष्ठभिन्नश्च । शूद्रस्य तु भागिनेयदौहित्रावपि ग्राह्यौ । अत्र प्रमाणं मनुः भातृणामेकजातानामेकश्चेत् पुत्रवान् भवेत् । सर्वास्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ” इति । ' एकजातानाम्' इत्यनेनैव सिद्धे भ्रातृपदं सोदरत्वेऽपि भ्रातृ- भगिनीनां परस्परपुत्रनियमो न भवतीति ज्ञापनार्थम् । एकजातग्रहणं भिन्नोदराणामेकपितृ- काणामपि सपिण्डान्तरलाभदशायां भ्रातृपुत्रनियमो न भवतीति ज्ञापनार्थम् । न तु भिन्न- दरभ्रातृपुत्रस्याग्राह्यत्वज्ञापनार्थम् । " ब्राह्मणादित्रये नास्ति भागिनेयः स्रुतः क्वचित् " इति वृद्धगौतमस्मृतिवत् तन्निषेधस्मृतेः क्वाप्यनुपलम्भात् । ' एक ' इति एकोऽपीत्यर्थः । तेन द्वयोरपि पुत्रवत्वेऽन्येषामपुत्राणां न भ्रातृपुत्रग्रहणा- संभवः । ' पुत्रवान् ' इत्यत्र पुत्रः पुत्रौ पुत्रा वा विद्यन्ते यस्येत्यनुपलम्भे सति शास्त्रविरु- ३७