पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/५६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

९ि ब्राह्मादिविवाहेषु सापिड्यानिवृत्तेर्भ- तस्माद्भगिन्याप्तप- ब्राह्मादिविवाहवि- प्र० २ विवाहाविषयी. विवक्षितां तथासतितरहितुर्भगिनीति- विशेषणं सार्थक । गिनीपदं नान्वियात् । अयमेव न्यायो मातृष्वस्त्रीयायामपियोजनीयः तमनुवचनचलादावेशेवनिवेशेवोपसयते दापे । ननु • पये मातुलसुतायाइव मातृष्वसुसुतायाअपि विवाहः प्राप्नुयात् तन्न शिष्टगर्हितत्वेन तत्र निषेधस्मृतिकल्पनात् । शिष्टगर्हितस्यानुपादेयत्वं याज्ञवल्क्यआह । अस्वग्ध लोकविद्विष्ट धर्ममप्या वरेन्नत्विति यद्यपि मातुलसुतापरिणयनमुदीच्यशिष्टगर्हितं तथापि दाक्षिणा- त्यशिष्टैरातत्वेन नाविगतोयमुदीच्यानामाचारः । नच दाक्षिणात्यानां रागमूलत्वं शंक- नीयं विधिनिषेधपरीक्षकैरेव तद्विवाहकरणात् मातृष्वसुः सुताविवाहस्त्वविगीतेनं शिष्टा- चारेणगर्हितः । मातुलसुता विवाहस्यानुग्राहकश्रुत्यादयः । तत्रमंत्रवर्णः । आयाहींद्रपथि- भिरीळितेभिर्यज्ञमिमंनोभागधेयंजुषत्व । तृप्तांजहुर्मातुलस्येवयोषा भागस्ते पैतृष्वसेयीवपा मिवेति । अयमर्थः । हे इंद्र पथिभिरीळितेभिस्तुतैस्माकाममं यज्ञमायाहि आगत्यचअं- स्माभिर्दीयमानं भागधेयं जुषस्व । तृप्तामाज्यादिना संस्कृतांवपां त्वामुद्दिश्यहुः त्यक्तवंतः तत्रदृष्टांतद्वयं यथामातुलस्य योषादुहिता दौहित्रस्यभागः परिणेया पारणेतुं योग्या यथा- च पैतृष्वसेयी पौत्रस्यभागः • तथाप्यंने तवभागोवपाख्यइति । वाजसनेयकेपि । तस्मादुस- मानादेकपुरुषादत्तावाद्यश्च जायेतेतोचमिथः संकल्पयतः कूटस्थमारम्य तृतीयेचतुर्थेवा उक्ततृतीये संगच्छाव है चतुर्थेसंगच्छावहाइति । समानादेकस्मात्पुरुषादत्ताभोक्ता आद्यः संभोग्यः द्वावुत्पद्येत तौचमिथः संकल्पयतः कूटस्थमारभ्य तृतीये चतुर्थेवा संगच्छाव है विवहावहा इत्यर्थः । यद्यप्यमयर्थवादः तथापि मानांतरविरोधाभावात् स्वार्थप्रमाणं विरो-. धिवचनानां मातृसपिंडाविषयत्वस्यवर्णितत्वात्तस्मादविरुद्धार्थवादे नानुदितत्वादुपरिधार- णवद्विधिः कल्पयितुं शक्यते । तथाहि प्रेताग्निहोत्रेश्रूयते । अघस्तात्सामधं धारयन्ननुद्र- वेदुपरिहिदेवेभ्यो यज्ञंधारयतीति । तत्र पैतृकस्य हविषोधस्तात् समंत्रकं समिद्धारणं विधा- य तद्वाक्यशेषेसमिधो हविरुपरिधारणं देवेकर्मणिय तत्कमर्थवादः उत विधायकइति संशयः तत्राधोधारणविधिस्तावकत्वेन तदेकवाक्यतालाभादर्थवादइति पूर्वः पक्षः । प्र- सिद्धंह्यर्थमनूद्यतेन स्ततियुक्ता उपरिधारणं तु नक्कापिप्रसिद्धं अतःस्तावकत्वायोगाद्वाक्य- भेदमभ्युगम्याप्यपूर्वार्थत्वाद्विधिः कल्पित एवं तृतीयेपुरुषे संगच्छावहा इत्यादावपि अ- पूर्वार्थत्वेन मातुलसुतां विवहेदितिविधिः कल्प्यते । तस्मातावगृहीतोयं विवाहः । स्मृ- तयस्तु ब्राह्मादिषु सापिंड्यनिराकरणेन मातुलसुताविवाहप्रापकश्रुत्या प्रदर्शिताः शिष्टा- चारश्च दाक्षिणात्यानामविगीत उदाहृतः । केचित्त आसुरादिष्वपिदेशविशेषेण मातुलसु- ताविवाहोधर्म्य इति मन्यंते उदाहरंतिचंवचनानि तत्रबौधायनः । पंचधा विप्रतिपत्तिदक्षिण- तः अनुपनीतेन भार्यवासह पर्युषितभोजनं मातुलहितृपितृवसहितृपरिणयनमिति