पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१३४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्र० ४ सापिण्ड्य निर्णय. ( १४६.) स्मृतिचन्द्रिकाकार देवण्णभट्ट यांणींही याप्रमाणेच लिहिले आहे. २५ १२७ साधु । मन्वादिवचनेषु प्राग्लिखितेषु पितामह्या धनाधिकारस्य शृङ्गग्राहियैव विधाना- तदेकवाक्यतया योगीश्वरवचनस्यापि विरूपैकशेषेण तत्संग्रहेपि श्रुतेस्तदन्यपरत्वेनावि- रोधात् । जीमूतवाहनस्य तु मात्रधिकारविचारप्रस्तावे पितामहसन्तानात्पूर्व पितामहाच परतः पितामह्या धनाधिकारः पितृतः परतो मात्रधिकारवत् । याज्ञवल्क्येन मात्रधिकार - प्रदर्शनेनैव पितृव्यादिभ्यः पूत्र पितामहपितामह्योरधिकारस्य सूचितत्वात्पृथङ्नोक्त इति वदतोत्र च सपिंडस्नीव्युदासार्थ गोत्रजग्रहणं वदतः पूर्वापरविरोधानुसन्धानमपि नास्ति । शृङ्गआहिकया योगीश्वरवचने पितामह्याः पितृव्यादिपत्नीवदनभिधानस्य तुल्यत्वात्तदे- वादायादश्रुतिप्रवृत्तेरविरोधात् । विद्यारण्यश्रीचरणोक्तप्राग्लिखिततस्मान्निरिंद्रिया इत्यादि- श्रुतिव्याख्याने तु स्त्रीणां दायग्रहणप्रतिषेधकत्वमेवास्याः श्रुतेर्नास्तीति नवा शङ्का न चोत्तरं । परंतु बौधायनमुनिवचनविरोधे तव्याख्यानं कथमुपपद्यतां । अस्तु वा इन्द्रियपद- स्य वाक्यशेषात्सोमपरता तथापि दायादत्वाभावाभिधानावलम्बनस्यान्यस्यासत्वान्निरा- लम्बनश्रुतेश्चासम्भवात्सिद्धवत्कीर्तनानुपपत्तिप्रसूतप्रतिषेधकल्पनावश्यम्भावात् । तस्माद्ग- र्भेणाविज्ञातेन हतेन ब्रह्महेत्यत्रेवेति ध्येयं । पितामह्या अभावे पितामहादयः सगोत्राः सपिंडा धनभाजः । भिन्नगोत्राणां सपिंडानां बन्धुशब्देन ग्रहणात् । तत्रापि पितृसन्ताना- भावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसंतानाभावे प्रपितामही प्रपितामहस्तद्भ्राता तत्सूनवश्चेत्येवमासप्तमात्समानगोत्राणां सपिंडानामपुत्र- धनभाक्त्वम् । सपिंडाभावे समानोदकानाम् । तेच सपिंडानामुपरि सप्त | जन्मनामज्ञा- नावधिका वा । यथाह मनुः । सपिंडता तुं पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेता चतुर्दशात् । जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यत इति । विष्णुवचने बन्धुसकु- ल्यपदाभ्यां सपिण्डसगोत्रौ गृह्येते इति प्रागेव प्रतिपादितं । समानोदका अपि प्रत्यासत्ति- क्रमेणधनभाजः । । २५. सोदरसुताभावे सापत्नभ्रातृसुता धनभाजः तेषामप्यभावे के धनभाज इत्यपे - क्षिते याज्ञवल्क्यः । गोत्रजा इति धनभाज इति शेषः । गोत्रजशब्दोऽत्र गोचलीवर्दन्वाया- तू पूर्वोक्तपितृभ्रातृतत्सुतव्यतिरिक्तपितामह मृतादिगोत्र जेषु वर्तते । तत्रापि सरूपैकशेषस्य स्वतोऽवगते पितामहदुहित्रादिस्त्रीव्यतिरिक्तेषु वर्तते । कारणांतरादेव हि कुक्कुटौ वायसौ मिथुनं करिष्याम इत्येवमादौ विरूपैकशेषावगतिः । नचेह तथास्ति कारणांतरं । प्रत्युत भ्रातृतत्सुतमाहचर्चात् पुमांस एव गोत्रजा गम्यन्ते किंच पत्नी दहित्रादीनां शृङ्गग्रहणेन दायादत्वस्मृतेरगत्या तस्मात् स्त्रियो निरिन्द्रिया अदायादा इति श्रुतेः तेनैव सरूपैकशेष- तया स्मृतेः सत्यां गतौ श्रुतिविरोधिनी विरूपैकशेषता दूरोत्सारिता । अतएव जीवत्पुत्रेभ्यो दायं विभजेदित्यापस्तम्बसूत्रं व्याचक्षाणेन तद्भाष्यकारेण पुत्रेभ्य एव दायं विभजेत् न