पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१२९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

हिन्दुधर्मशास्त्र. ( १३८.) वर मी जें लिहिले आहे त्यांत विवाहासंबंधानें सामान्य नियमांचा समावेश झाला आहे; परंतु त्या नियमांना प्रसिद्ध अपवाद कोणकोणते आहेत ते दिले पाहिजेत; कारण जर ते अपवाद दिले नाहीत तर वरील नियमांविरुद्ध जी लग्ने होतात तीं सर्व गैरवाजवी असे अज्ञ लोक मानूं लागतील. त्या. अपवादांबद्दल त्यांविषयींचा धर्मसिंधूंतील उतारा देतों, कारण त्या उताऱ्यांत ह्याविषयीं आचारमाधव, निर्णयसिंधु, आणि संस्कार कौस्तुभ यांच्या मतांचा सारांश चांगला आला आहे." १२२ प्र० ४ ११. परंतु सापिण्ड्यसंकोचस्वीकारेऽपि कतिथी कन्या कतिथेन पुरुषेण विवाह्या क तिथेन न विवाह्या इति व्यवस्थानोपपादिता । सापिंड्यदीपिकाकारादयोऽर्वाचीनास्तु चतुर्थी मुद्हेत्कन्यां चतुर्थः पञ्चमो वरः । पराशरमते षष्ठीं पञ्चमो नतु पञ्चमीमित्यादिवचनानां समू- लत्वं निश्चित्य अशक्तैः संकटे समाश्रयणीयस्य सापिंड्यसंकोचस्य व्यवस्थामूचुः । तथा- हि । चतुर्थी कन्या पितृपक्षे मातृपक्ष च चतुर्थेन पंचमेन वा पुंसा विवाया । द्वितीयतृतीय- षष्ठाद्यैः चतुर्थी नोद्वाह्या । पराशरमते पञ्चमः षष्ठीमुद्हेत् । पञ्चमः पञ्चम नोद्वहेत् । मातृतः पितृतश्चापि षष्ठः षष्ठी समुद्रहेदिति वचनान्तरात् षष्ठेनापि षष्ठी विवाह्या । पञ्चम- षष्ठभिन्नैः षष्ठी न विवाह्येतिपर्यवसन्नम् । तथा पितृपक्षे सप्तमी मातृपक्षे पञ्चमी च तृतीयाद्यैः सर्वैः परिणेया । पितृपक्षाच्चसप्तमी मातृपक्षात् तु पञ्चम इति व्यासवचनात् । उद्हेत् सप्त- मादूर्ध्वं तदभावे तु सप्तमीं । पञ्चमीं तदभावे तु पितृपक्षेप्ययं विधिः इति चतुर्विंशतिमतोक्तेश्च । पितृपक्षेपितृतीयाद्यैः परिणेया तत्रापि मातृपक्षेपि पञ्चमेन पञ्चमी नोद्वाह्या पञ्चमो न तु पञ्चमीमितिसर्वत्र निषेधात् । तृतीयां वा चतुर्थी वा पक्षयोरुभयोरपीति वचनात्तु तृतीया विवाह्या प्राप्नोति तत्र व्यवस्थोच्यते । मातृपक्षे तावत् तृतीया मातृकन्या मातृष्वसृकन्या वा संभवति पितृपक्षे तु तृतीया पितृव्यकन्या पितृष्वसृकन्या वा तत्र पितृव्यकन्या सगोत्रत्वात् त्याज्या पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च । एतास्तिस्त्रस्तु भार्या नोपयच्छेत बुद्धिमान् इतिमनूक्तेः । पितृष्वसृमातृष्वसृकन्ये अपि त्याज्ये पितृष्वसुकन्यां मातुर्भगिनीं मातृष्वसारं मातृष्वसृकन्यामेतास्तिस्रो नोद्वहेदिति तदर्थात् । मातुलकन्यैव तृतीयां पूर्वोक्तरीत्या कुलपरम्परागतत्वे परिणेया । एवंच तृतीयापि तृतीयेनैव मातुल- कन्यैव परिणेया न चतुर्थादिना केनापि । केचित् सङ्कटे पितृष्वसृकन्यापरिणयनमाहुः । तत्र देशकुलाचारात् व्यवस्था ज्ञातव्या । अत्रायं सापिण्ड्यदीपिकादिसिद्धार्थसंग्रहः तृतीया मातुलकन्यैवोद्वाह्या चतुर्थी चतुर्थपञ्चमाभ्यामेव पञ्चमी पञ्चमभिन्नैः तृतीयाद्यैः सप्तमान्तैः । षष्ठी पञ्चमषष्ठाभ्यामेव । सप्तमी तृतीयाद्यैः सप्तमान्तैरिति । अयं सापुण्ड्यसंकोचेन विवाहः संकटप्वशक्तेन कार्य: गुरुतल्पादिदोषस्मृतेः सापिण्ड्य संकोचवाक्यानां अशक्य- विषयत्वस्य स्पष्टत्वात् । प्रभुः प्रथमकल्पस्य यो नुकल्पेन वर्तते । स नाप्नोति फलं चेहेति शक्तैरनुकल्पस्वीकारे दोषोक्तेः । .