पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१००

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्र० ३ दत्तकप्रकरण. ९३ विनियोगत्वेन भाव्यत्वे तत्त्यक्त्वा • भागिनेयदौहित्रदानेन शूद्रं भांवयेदिति वाक्या दौहित्रभागिनेययोर्विधेयत्वेन तयोरेव नियमविधिविषयत्वं युक्तम् ॥ शूद्रस्य तु शेषितया तन्नियमे परिसङ्ख्यापद्येत । यथा इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इति ॥ साच त्रिदोषा || न चैकत्र वाक्ये नियमपरिसङ्ख्ययोः सम्भवः ॥ तेन ब्राह्मणादिभिरपि दौहित्रभागिनेयौ पुत्रत्वेन ग्राह्याविति सिद्धम् ॥ तथा शूद्रेण सति सम्भवे दौहित्रभागिने- यावेव ग्राह्यौ ॥ ननु दौहित्रभागिनयनियमाच्छूद्रस्य तद्व्यतिरिक्तो न स्यादेव अतः सति सम्भव इतीदमप्रमाणकम् ॥ तत्र केचित् ब्राह्मणस्य सौमविद्याप्रजमित्यधिकरणे प्रजोत्पा- दनस्य नित्यत्वेोक्तेः पुत्रप्रतिग्रहविधैरपि भाब्याकांक्षायां पुत्रशब्देनोपस्थितस्य तत्कार्यस्य ऋणाकरणदेव प्रजोत्पादनफलस्य भाव्यत्वावगमे प्रजोत्पादनवदेव फलतो नित्य- त्वेन यथाशक्तिन्यायाद्दौहित्रभागिनेयनियमानादरोपि युक्त इति ॥ तन्न । प्रयोगविधि- प्रयोज्येष्वेवाङ्गेषु यथाशक्तिन्यायप्रवृत्तेरिष्टत्वात् ॥ अतश्च यत्प्रयोगविधिप्रयोज्यं प्रतिग्रहांग- होमादि तस्यैव यथाशक्तिन्यायेन त्यागो न तु प्रयोगविध्यप्रयोज्यस्य दौहित्रत्वभागिनेय- त्वादेः । अतएव सजातीयेष्वयं प्रोक्तस्तनयेषु मया विविरिति मनूक्तसजातीयत्वनिय- मस्यापि न त्यागः तस्मात्सति सम्भव इत्ययुक्तमिति ॥ अत्रोच्यते || शौनकेनैव वैश्यानां वैश्यजातिषु शद्राणां शूद्रजातिष्विति नियमजान्मनुनापि सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिरिति सजातीयत्वनियमनाद्दौहित्रत्वशूद्रत्वयोश्च परस्परव्यभिचारात्सामान्य- दौहित्रभागिनेयातिरिक्तशूद्रविधा - विशेषभावाभावेनोपसंहारस्याप्ययोगाद्वैयर्थ्यपरिहारार्थं नार्थत्वे शूद्रवाक्यस्य निर्णीते दौहित्रभागिनययोः पूर्वत्र स्वावयवानामुत्तरत्र स्वपित्र- वयवानामनुवृत्तेरन्तरङ्गत्वात्सति सम्भवे तावेव ॥ तदसम्भवे तु शूद्रान्तरमपि पुत्रो भवत्येवेति । एवं च न शिष्टाचारविरोधोपि कश्चिदिति सर्वे निरवद्यम् ॥ इति श्रीमत्पद- वाक्यप्रमाणपारावारीणधुरीणमीमांसाद्वैतमाम्राज्यधुरन्धरश्रीधरभट्टनारायणात्मजभट्टशङ्करोन्नी- ते धर्मद्वैतनिर्णये पुत्रप्रतिग्रहविधिसंशयोद्भेदपरिच्छेद इत्युक्तम् ॥ - सर्वशास्त्रतत्वज्ञकृष्णभट्टेनापि स्वकृत निर्णयसिन्धुटीकायां तृतीयपरिच्छेदे दत्तकप्रक- रण इदमुपन्यस्तम् । तद्यथा ॥ भट्टास्तु शूद्रस्यैव दौहित्रभागिनेयौ द्वौनेतरस्येति न नियमः ॥ यथा दण्डी प्रैषान- न्वाहेति दण्डित्वेन प्रैषानुवचने मैत्रावरुणस्य विनियोगात् प्रैषानुवचनकर्तृत्वेन भाव्युपयोगिनो मैत्रामरुणस्यैव मैत्रावरुणाय दण्डं प्रयच्छतीत्यत्र दण्डितया भाव्यत्वं यजमानः स्वदण्डदा- नेन मैत्रावरुणं भावयेदित्यर्थात् । तथेहाप्यनपाकृतर्णत्वेन चतुर्थ्यर्थषष्ठ्या दौहित्रभागिने- यदानेन शूद्रं भावयेदित्यर्थः ॥ एवं च दौहित्रभागिनेययोविंधेयत्वेन नियमविधिविषयत्वं युक्तम् । शूद्रस्य तु शेषितया तन्नियमे परिसङ्ख्यापत्तेः । यथा इमामगृभ्णन् रशनामृत-