पान:विद्यार्थि धर्म.pdf/१६२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
परिशिष्ट पहिलें.
पहाटेच्या वेळी प्रत्येक विद्यार्थ्याने ह्मणावयाचें
प्रातःस्मरण.


यं ब्रह्मावरुणेंद्ररुद्रमरुतः स्तुन्वंति दिव्यैः स्तवैः ।
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ॥
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १ ॥
पृथ्वी सगन्धा सरसास्तथापः स्पर्शीच वायुर्ज्वलनः सतेजाः ॥
नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् ॥ २ ॥
भृगुर्वसिष्ठः क्रतुराङ्गराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ।
रैभ्यो मरीचिश्च्यवनश्चदक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥
वैन्यं पृथुं हथमर्जुनंच शाकुन्तलेयं भरतं नलं च ।
रामं च यो वै स्मरति प्रभाते तस्यार्थलाभो विजयश्च हस्ते ॥ ४॥
बलिभिषिणो भीमः प्रह्लादो नारदो ध्रुवः ।
षडेते वैष्णवाः प्रोक्ताः स्मरणं पापनाशनम् ॥ ५ ॥
अश्वत्थामा बलियो हनुमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ ६ ॥
सप्तैतान्संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
शतं सामपमृत्युविवर्जितः ॥ ७ ॥
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
पंचकं ना स्मरेन्नित्यं महापातकनाशनम् ॥ ८ ॥