पान:रामायणनिरीक्षण.pdf/२०५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

46 रामायणीनरीक्षण. पौरुषेणान्नमाक्रम्य यथा दंतेन चूर्ण्यते । अन्यः पौरुषमाश्रित्य तथा शूरेण चूण्यते ॥ २२ ॥ अन्नाभूता हि महतां लघवो यत्नशालिनाम् । यथेष्टं विनियोज्यंते तेन कर्मसु लोष्ठवत् ॥ २३ ॥ देश – काल – क्रिया - द्रव्य -वशतो विस्फुरंत्यमी । सर्वे एव जगद्भावाः जयत्यधिकयत्नवान् ॥ २४ ॥ तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः । प्रज्ञां अमलतां नीत्वा संसारजलधिं तरेत् ॥ २५ ।। स्वार्थमापक कार्येक प्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन; सा सिद्ध्यै शास्त्रयंत्रिता ॥ २६ ॥ अनर्थमा प्तिकार्यैकप्रयत्नपरता तु या । प्रोक्ता प्रोन्मत्तचेष्टेति; न किंचित् प्राप्यतेऽनया ॥ २७॥ अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । प्रयत्नात् चित्तमित्येष सर्वशास्त्रार्थसंग्रहः ॥ २८ ॥ यो यो यथा प्रयतते स स तत्तत्फलैकभाक् । न तु तूष्णीं स्थितेनेह केनचित् प्राप्यते फलम् ॥ २९ ॥ देशाद्देशांतरप्राप्तिः हस्तस्य द्रव्यधारणम् । व्यापारश्च तथांगानां पौरुषेण; न दैवतः ॥ ३० ॥ मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः । प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः ॥ ३१ ॥ शूरा, ये च विक्रांता, ये प्राज्ञा, ये च पंडिताः । तैस्तैः किमिव लोकेऽस्मिन् वद दैवं प्रतीक्ष्यते ? ॥ ३२ ॥ " Survival of the fittest या तत्वाचा अनुभव घ्या !