पान:रामायणनिरीक्षण.pdf/१५३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१४४ रामायणनिरीक्षण. फाल्गुनादि प्रतिपदश्चतुर्थ्येतं चतुर्दिनैः । त्रिशिरप्रमुखास्तत्र निहताः पंचराक्षसाः ॥ ५६ ॥ पंचम्याः सप्तमी यावत् अतिकायवधस्तथा । अष्टम्या द्वादशी यावत् निहितौ दिनपंचकात् ॥ ५७ ॥ निकुंभकुंभौ बद्धस्तु मकराक्षः त्रिभिर्दिनैः । फाल्गुनासितद्वितियादिने शक्रजिता जितम् ॥ ५८ ॥ तृतीयादि सप्तम्यतं दिनपंचकमेव च । औषध्यानयनव्यग्रादवहारो बभूव ह ॥ ५९॥ ततस्त्रयोदशी यावद्दिनैः पंचभिरिंद्रजित् । लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ॥ ६० ॥ चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः । अमावास्या दिने प्रायात् युद्धाय दशकंधरः || ६१ ॥ चैत्रशुक्लपतिपद: पंचमीदिनपंचकैः । रावणे युध्यमाने तु प्रचुरो रक्षसां वधः ।। ६२ ॥ चैत्रषष्ठ्याष्टमी यावत् महापाश्र्वादिमारणं । चैत्रशुक्लनवभ्यां तु सौमित्रेः शक्तिभेदनम् ।। ६३ ॥ कोपाविष्टेन रामेण द्रावितो दशकंधरः । द्रोणाद्रेशनयने लक्ष्मणार्थमुपाकृतः ॥ ६४ ॥ दशभ्यां अवहारोऽभूत् रात्रौ युद्धे तु रक्षसाम् । एकादश्यां तु रामाय रथं मातलिसारथिः || ६५ ॥ प्रेरितो वासवेनाजौ अर्पयामास भक्तितः । कोपबानथ द्वादश्या यावत्कृष्णचतुर्दशी || ६६ ॥ .