पान:रामायणनिरीक्षण.pdf/१५२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

परिशिष्ट ३ रें. त्रयोदश्याममावास्यां लंकायां दिवसैः त्रिभिः । · रावणः सैन्यसंख्यानं रणोत्साहं तदाऽ करोत् ॥ ४५ ॥ प्रययौ अंगदो दैत्ये माघशुक्लाघवासरे । सीतायाश्च ततो भर्तुर्मायामूर्धादिदर्शनम् ॥ ४६ ॥ माघशुक्लद्वितीयाया: दिनैः सप्तभिरष्टमीम् । • राक्षसैर्वानराणां च युद्धमास च संकुलम् ॥ ४७ ॥ माघशुक्लनवम्यांतु रात्रौ इंद्रजिता रणे । रामलक्ष्मणयोर्नागपाशबंधः कृतः किल ॥ ४८ ॥ आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः । नागपाशविमोक्षार्थी दशभ्यां पवनोऽजपत् || ४९ ॥ कर्णे स्वरूपं रामस्य गरुडागमनं ततः । एकादश्यां च द्वादश्यां धूम्राक्षस्य वधः कृतः ॥ ५० ॥ त्रयोदश्यां तु तेनैव निहतः कंपनो रणे । माघशुक्ल चतुर्दश्या यावत्कृप्णादि वासरम् ॥ ५१ ॥ त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः । माघकृष्ण द्वितीयायाः चतुर्थी तु त्रिमिर्दिनैः ॥ ५२ ।। रामेण तुमुले युद्धे रावणो द्रावितो रणात् । पंचम्या अष्टमी यावत् रावणेन प्रबोधितः ॥ ५३ ॥ कुंभकर्णस्तदा चक्रेऽभ्यवहारं त्रिमिर्दिनैः । कुंभकर्णो दिनैः षडूभिः नवम्याश्च चतुर्दशींम् ॥ ५४ ॥ रामेण निहतो युद्धे बहुवानरभक्षकः । अमावास्या दिने शोकादवहारो बभूव ह ॥ ५५ ॥