पान:रामायणनिरीक्षण.pdf/१५१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

'रामायणनिरीक्षण. मध्ये प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च । रामः कृत्वा प्रतिज्ञां तु प्रयातो दक्षिणां दिशम् ॥ ३५ ॥ तीवहं सागरमपि हनिप्ये राक्षसेश्वरम् । दक्षिणायां प्रयातस्य सुग्रीवोऽयं भवत्सखा || ३६ || वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम् । पौषशुक्ल प्रतिपदः तृतीया यावदंबुधेः ।। ३७ ।। उपस्थानं ससैन्यस्य राघवस्य बभूव ह । बिभीषणश्चतुर्थ्यो तु रामेण सह संगतः ॥ ३८ ॥ समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः । प्रायोपवेशनं चक्रे रामो निचतुष्टयम् ॥ ३९ ॥ समुद्रवरलाभश्च सहोपायप्रदर्शनम् । ततो दशम्यामारभ्य त्रयोदश्यां समापनम् ॥ ४० ॥ चतुर्दश्यां सुवेलादौ रामः सैन्यं न्यवेशयात् । पौर्णमास्याद्वितीयांतं त्रिदिनैः सैन्यतारणम् ॥ ४१ ।। तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान् । रुरोधच पुरीं लंकां सीतार्थं सहलक्ष्मणः ॥ ४२ ॥ तृतीया दिदशम्यंतं निवेशश्च दिनाष्टकम् | शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने || ४३ ॥ पौषाऽसिताख्यां द्वादश्यां सैन्यसंख्यानमेव च । शार्दूलेन कपींद्राणां सहसारोषवर्णनम् ॥ ४४ ॥ १ येथे सांतेचा शोध लागल्यानंतर सुग्रीवाशी मैत्री झाली असे म्हटले आहे; हे जरा चमत्कारिक आहे, मग हनुमानास मार्गे सीताशुद्धीस कोणी पाठविले ?