पान:रामायणनिरीक्षण.pdf/१४६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

कृपया पुस्तक परिशिष्ट ३ अत्रावहारः कथितो दशम्यादिदिनद्वयम् । द्वादश्यां आंजनेयेन धूम्राक्षस्य वधः कृतः ॥ २५ ॥ त्रयोदश्यां तु तेनैव निहतों कोनो रणे । माघशुक्लचतुर्दश्यां यावत्कृष्णादिवासरम् ॥ २६ ॥ त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः । माघासितद्वितीयायाश्चतुर्थ्यतं त्रिभिर्दिनैः ॥ २७ ॥ रामेण तुमुले युद्धे रावणो द्रावितो रणात् । पंचम्यास्त्वष्टमी यावत् रावणेन प्रबोधितः ॥ २८ ॥ कुंभकर्णः समुत्तस्थौ अत्रायुद्धं चतुर्दिनम् || कुंभकर्णो दिनैः षाड्ङ्क्तः नवम्यस्तु चतुर्दशीम् ॥ २९॥ रामेण निहतो युद्धे बहुवानरभक्षकः । अमावास्या दिने शोकादवहारो बभूव ह ॥ ३० ॥ फाल्गुनादि प्रतिपदः चतुर्थ्यतदिनैस्ततः । नरांतकप्रभृतयो निहताः पंच राक्षसाः || ३१ ।। पंचम्याः सप्तमी यावत् अतिकायवधः व्यहात् । अष्टम्या द्वादशी यावत् निहतौ दिनपंचकात् ।। ३२ || निकुंभकुंभौ ऊर्ध्वं तु मकराक्षः चतुर्दिनैः । फाल्गुनस्य द्वितीयायां कृष्णे शक्रजिता जितम् ॥ ३३ ॥ तृतीयायास्तु सप्तम्यां हरयः पंचवासरात् । ओषध्यानयने व्यग्राः तदाऽऽसीदअवहारकः ॥ ३४ ॥ तत्र त्रयोदशीं यावत् दिनैः षड्डिस्तु शऋजित् । लक्ष्मणेन हतो युद्धे विघ्नितोऽभिचरत् क्रमात् ॥ ३५ ॥ १३७