पान:रामायणनिरीक्षण.pdf/१४१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१३२ रामायणनिरीक्षण, स कौशिकमखं गत्वा सीतां ऊह्याथ भार्गवम् || आगत्य पुरमुत्कृष्टं यौवराज्यप्रगल्भकः ॥ ६५ ॥ मातृवाक्याद्वनं प्रागात् गंगामुत्तीर्य पर्वतम् || चित्रकूटं महिलया लक्ष्मणेन समन्वितः ॥ ६६॥ भरतस्तु वने श्रुत्वा जगाम भ्रातरं नयी ॥ तमप्रौप्य स्वयं नंदीग्रामे वासं अचीकरत् ॥ ६७ ।। २ वालमेतत् ; शृणुष्वान्यद् आरण्यकमथाखिलम् । मुनीनामाश्रमे वासः तत्र तत्रोपवर्णनम् ॥ ६८ ॥ नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम् । मायामारीचहननं सीताहरणमेव च ॥ ६९ ॥ बने विरार्हणा भ्रांतं मनुष्यचरितं भृतम् । कबंधप्रेक्षणं तत्र पंपायां गमनं तथा ॥ ७० ॥ हनूमता संगमोऽभूद् इत्येतद् वनसंज्ञितम् । ३ अपरं च शृणुष्वान्यद् संक्षेपात्कथयाम्यहम् ॥ ७१॥ सप्ततालप्रभेदश्च वालेर्मारणमद्भुतम् । सुग्रीवे राज्यदानं च नगवर्णनमित्युत ॥ ७२ ॥ लक्ष्मणात्कर्मसंदेश: सुग्रीवस्य विवासनम् । तथा सैन्यसमुद्देशः सीतान्वेषणमित्युत || ७३ || संपातिप्रेक्षणं तत्र वारिधेर्लंघनं तथा । परतीरे कपिप्राप्तिः किष्किंधाकांडमुत्तमम् ॥ ७४ ॥ ४ सुंदरं शृणु कांडं वै यत्र रामकथाऽद्भुता । प्रतिगेहे परिभ्रांतिः कपेश्चित्रस्य दर्शनम् ॥ ७५ ॥ १ हे महत्त्वाचे आहे. भरताची व रामाची यावरून गांठच पडली नाहीं असें दिसते किंवा ' तो परत न आल्यामुळे ' असाहि याचा अर्थ होऊं शकेल.