पान:महाराष्ट्र भामिनिविलास.pdf/121

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

परिशिष्ट पहिले. १०५ कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः॥२९॥ तिरस्कृतो रोषवशात् परिष्वजप्रियो मृगाक्ष्या शयितः पराङ्मुखः । किं दुःखितोऽसाविति कान्दिशीकया कयाचिदाचुम्ब्य चिराय सस्बजे ॥३०॥ चैलाञ्चलेनाननशीतरसित संवृण्वतीनां हरिदृश्वरीणाम् । व्रजाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥३१॥ शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥ ३२ ॥ वदनारविन्दसौरभलोभादिन्दिन्दिरेष्ठ निपतत्सु । मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः ॥३३॥