पान:महाराष्ट्र भामिनिविलास.pdf/118

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

१०२ महाराष्ट्र भामिनीविलास. रोषावेशान्निर्गतं यामयुग्मादेत्य द्वारं कांचिदाख्यां गृणन्तम् । मामाज्ञायैवाययौ कातराक्षी मन्दं मन्दं मन्दिरादिन्दिरेव ॥६॥ कुचकलशयुगान्तर्मामकीनं नखावं सपुलकतनु मन्दं मन्दमालोकमाना। विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकितनतनताङ्गी सद्म सद्यो विवेश ॥ ७ ॥ विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना। तन्वी तदानीमतुलां बलारेः साम्राज्यलक्ष्मीमधरीचकार ॥ ८॥ मुहुरथितयाद्य निद्रया मे वत याने चरमे निवेदितायाः। चिबुकं सुदृशो मृशामि यावन्मयि तावन्मुदिरोऽपि निर्दयोऽभूत् ॥ ९॥ श्रुतिशतमपि भूयः शीलितं भारतं वा विरचयति तथा नो हन्त संतापशांतिम् । अपि सपदि यथायं केलिविश्रान्तकान्ता वदनकमलवल्गत्कान्तिसान्द्रो नकारः॥१०॥ भुजपजरे गृहीता नवपरिणीता वरेण रहसि वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥११॥ अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् इत्यालपति कराम्बुजमादायालजिनस्य विकला सा॥१२॥