पान:महाराष्ट्र भामिनिविलास.pdf/117

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

परिशिष्ट पहिलें. ( शृंगारविलासांतील भाषान्तर न केलेली पयें.) बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतां क्रमेण । अधुना हरणे कुचौ यतेते दयिते ते करिशावकुंभलक्ष्म्याः ॥१॥ नीवीं नियम्य शिथिलामुषसि प्रकाशमालोक्य वारिजशो नयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे नाभेः प्रभा सरसिजोदरसोदरायाः॥२॥ वक्षोजाग्रं पाणिनास्पृश्य दूरं यातस्य द्रागाननाब्जं प्रियस्य । शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥३॥ गुरुमध्यगता मया नतांगी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभूलतिकं मामवलोक्य घूर्णितासीत् ॥ ४॥ दरानमत्कन्धरबन्धमीषनिमीलितस्निग्धविलोचनाब्जम् । अनल्पनिःश्वासभरालसाङ्गं स्मरामि संगं चिरमङ्गनायाः ॥५॥