पान:भारतीय रसायनशास्त्र भाग २.pdf/218

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२११ उतारे व टिपणे. रक्तचित्रकमूलं तु पाठातत्तेललेपितं ॥ अनेन पूर्वपत्राणि प्रलिप्तान पुटे पचेत् ॥ ७० ॥ एवं त्रिसप्तधा कुर्यात् दिव्यं भवति कांचनम् ॥ नागिनीकंद सूतेंद्र रक्तचित्रकमूलकं ॥ ७१ ॥ पिष्टा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् ॥ तदुत्पाच्या पुटैरेवं दिव्यं भवति कांचनं ।। ७१ ॥ ज्योतिष्मतीभवैस्तैलैस्ताम्रकुंभं प्रपूरयेत ॥ मुखं रुध्वा क्षिपेद्भुमौ पृष्ठे तुषपुटं सदा ॥ ७३ ॥ एवं षण्मासपर्यतं पुटयेदुद्धरेत्क्रमात् ॥ बहिस्तुषपुटे पच्यात् त्रिदिनं तद्दिवानिश ॥ ७४ ॥ तत्तानं हाटकं तुल्यं समावर्त्य तु कारयेत् ॥ क्षिपेज्योतिष्मती तैले सर्वे भवति कांचनं ॥ ७९ ॥ क्षीरकंदभवेत् क्षीरे तप्तं तानं निषेचयेत् ॥ शतवारं प्रयत्नेन तत्तानं कांचनं भवेत् ॥ ७६ ॥ गंधकं सरकं ताप्यं पारदं रक्तचनं ॥ मद्येरुदतिकाद्रावैः अविच्छिन्नं दिनत्रयं ॥ ७७ ॥ तेन तारस्य पत्रााण लिप्त्वा रुध्वा पुटे पचेत् ॥ इत्येवं सप्तधा कुयोद्दिव्यं भवति कांचनं ॥ ७८ ॥ कृष्णाया वाथ पीताया देवदाल्या फल द्रवं ॥ विष्णुक्रांतांद्रवैस्तुल्यं कृत्वा तेनैव मर्दयेत् ॥ ७९ ॥ सप्ताहं पारदं शुद्धं ततस्तानं प्रलेपयेत् ॥ रुध्वागजपुटे पच्यात्त तस्तीत्राश्ना धमेत् ॥ ८० ॥ दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति हाटकं ॥ देवदाल्या फलं मूलं ईश्वरीफजलद्रवं ॥ ८१ ॥ पिष्ट्वातत्कल्कवापेन द्रुतं चंगं दृढं भवेत् ॥ भूयोवस्त्रहं वाप्यं तारं भवति शोभनं ॥ ८२ ॥ १ देयं । २ क्षीसशेच भवेत्क्षीरे।