पान:भारतीय रसायनशास्त्र भाग २.pdf/217

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२१० भारतीय रसायनशास्त्र. इत्येवं सप्तधा कुयलेप तापग्निसेवनात् ।। समावर्त्य तु तत्तानं दिव्यं भवति कांचनं ॥ ५६॥ रसकं ददं गंधगगन कुनटी समं ॥ आरक्तस्नुपक्योभिश्च मर्दयेदिवसत्रयं ।। ५७ ॥ तेन वेध्यं द्रुतं तानं नागं वा तारमेव वा ।।। सहस्रांशेन तद्व्यिं सुवर्ण जायते ध्रुवं ॥ ५८ ॥ रक्तस्नुहीभवैः क्षीरः रजनी मद्येश्यहं ।। तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् ॥ ५९॥ पुनलप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ।। पद्मिनी पत्रपुष्पाभा विज्ञेया स्थलपद्मिनी ।। ६० ।। भगे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥ पारदं गंधकं तालं माहिषं कुनटी समं ॥ ६१ ॥ पूर्वोक्तपद्मिनीयुक्तं मर्दयेदिनसप्तकं ॥ तेन शुल्वं भवेत् स्वर्ण सहस्रांशेने वेधितं ।। ६२ ॥ नाग वगं तीक्ष्णमारं तारं चक्रम शोत्तरम् ॥ पंचांना तु समं ताम्रं सर्व मूषागतं धमेत् ॥ ६३ ॥ प्रकटं वक्रनालेनं यावत्तारावशेषितं ॥ तत्तार पद्मरागानं जायते द्रावयेत्पुनः ॥ ६४ ।। वेध्यं रसकसत्वेन पंचमांशेन यत्नतः ॥ तद्भवेत् काचनं दिव्यं सिद्धयोग उदाहृतः ।। ६५ ।। रक्तचित्रकपंचांगं छाया शुष्कं विचूर्णयेत् ॥ तद्वापं द्रुतवंगस्य रुध्वा रुध्वा त्रिवारकं ॥६६॥ देयं तज्जायते तारं शंखदुसन भं॥ रक्तचित्रकमूलं तु काजिकं शुद्धपारदं ॥ ६७ ॥ कंगुणी तैळसंयुक्तं सर्वकल्के प्रलेपयेत् ।। ताम्रपत्राण तप्तानि तस्मिन्पात्रे त्रिसप्तधा ॥ ६८ ॥ एतत्तानं द्विषड्भागं तारं पोडशभागकं ।। एकीकृत्य समावर्त्य तेन पत्रााण कारयेत् ॥ ६९ ॥