पान:भारतीय रसायनशास्त्र भाग २.pdf/215

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२०८ भारतीय रसायनशास्त्र, दिनं तद्वत्पुटे पच्यात पुनमद्यं च पाचयेत् ॥ जायते भस्मसूतोऽयं सर्वकार्यकरक्षमः ॥ ३० ॥ शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकं ॥ मद्येमुन्मत्तकद्रावैः खल्व यामचतुष्टयम्।। ३१ ॥ पातयेत्पातनायंत्रे दिनैकं मंदवन्हिना ॥ ऊध्वैलग्नांमधस्थं च तत्सर्वे तु समाहरेत् ।। ३२ ।। मर्घमुन्मत्तकद्रावैः दृढं यामचतुष्टयं ॥ तद्वयोमं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ।। ३३ ।। पुनः पाच्यं पुनर्मद्ये उर्ध्वाधःस्थं प्रयत्नतः ॥ सर्व पाच्यमधोभांडे तिष्ठते तावतावधि ॥ ३४ ॥ तत्सर्वं पूर्ववन्मर्च गोलं कृत्वाद्य शोषयेत् ॥ ससाकं (रं) पेषयेदशौ नाधिकं कथमेव वा ॥ ३५।। पीतांजनं वा पेष्यं च तेन गोलं प्रलेपयेत् ॥ वज्रमूषोदरे चाथ तेन कल्केन लेप्य वै ॥ ३६ ॥ गोलकं ताप (म्र ) येत्तत्र वक्रनालेन तं धमेत् ॥ खोटबद्धं भवेत्साक्षी तीव्रध्मातानलेन तु ॥ ३७॥ पलं सूतं पलं नागं द्वाभ्यां रुध्वा मनःशिलां ॥ पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३८ ॥ नागं तारं समं द्राव्यं तचूर्ण पलमात्रकं ॥ शुद्धसूतपलैकं च सर्वतुल्या मनःशिला ॥ ३९ ॥ पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला ॥ ४० ॥ प्रयोज्या पूर्वयोगेन पूर्ववत्तारवत्तथा ॥ तद्वच्च स्वर्णपिष्टीं च गंधकेण च पूर्ववत् ।। ४१ ॥ कृष्णाभ्रकं च सत्वं च तीक्ष्णं कांतं च हाटकं ॥ शुल्वं तारं च माक्षीक समं सूक्ष्म विचूर्णयेत् ॥ ४२ ॥