पान:भारतीय रसायनशास्त्र भाग २.pdf/211

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२०४ भारतीय रसायनशास्त्र शुद्धं ताम्र तीक्ष्णचूर्णेन तुल्यं ।। द्राव्यं सम्यक् ढालयेल्लाकुचेन ॥ गंधश्रूणे तापिताम्रावशेषं । कृत्वा दद्याद्रल्लहीने सुवर्णे ॥ ३१३ ॥ वर्णोत्कर्षों जायते तेन सम्यक् । सत्यं प्रोक्तं नंदिनी कौतुकय ॥ ३२॥ ताप्यं नागं सूतकं गंधकं हि । हिंगूलं वै स्वर्णशुद्धं शिला च ॥ चूर्ण कृत्वा निक्षिपेत्काचकूप्यां । | आर्यंते स्वेरसे शाकजे वा ॥ ३३॥ अग्नि दद्याल्लावकाख्ये पुटे च ।। पष्टिर्माने जायते शुद्धकल्कं ।। शुद्धं तारं वेधितं वल्लकेन । गद्याणं वै जायते शुद्ध हेम ।। ३४ ॥ अहिरिपुरहितुल्यं सारितं सूतराजे । बलिवसगिरिचणे कतिपत्रे सुदग्धं ॥ सुनिहितफणिभागे हेमगर्भे निबद्धो । भुजगजितरसेंद्रो वेधयेल्लक्षवेधी ॥ ३५ ॥ द्वौ भागौ शुद्धताम्रस्य द्वौ भागौ शुद्धहेमकौ।। चत्वार एव भागाः स्युः शुद्धतारस्य कारयेत् ॥ ३६ ।। अष्टौ भागाः प्रकर्तव्याः रसकस्य प्रयत्नतः ।। अंधभूषागतं सर्वे द्रावित हेम जायते ॥ ३७॥ लोहचूर्ण पलमितं सम्मलक्षामिश्रितम् ॥ टंकणं शाणमात्रं हि तैलेनैरंडजेन वै ॥ ३८ ॥ घर्षयेद्धटिकायुग्मं गोलं कृत्वा धर्मत्ततः ।। भस्रया धम्यते सम्यक् लोहे रसनिभं भवेत् ।। ३९ ॥ १ ताप्यताम्र । B,