पान:भारतीय रसायनशास्त्र भाग २.pdf/209

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२०३ भारतीय रसायनशास्त्र, जायते प्रवरं हेम शुद्धं वर्ण चतुदर्श [ इति हेमक्रिया ] । स्वर्णमाक्षिकं संस्वेद्य कांज़िके दिवसत्रयम् ॥ ७ ॥ चर्मरंग्या रसेनैव मर्दयेद्दिनसप्तकम् ।। जलेन धौतं तावच यावर्द्धमानभं भवेत् ॥ ८ ॥ दरदो रोमदेशीयो गोमूत्रेणैव स्वेदयेत् । दोलायंत्रेऽन्हि चत्वार पश्चात् शुद्धतमो भवेत् ॥ ९ ॥ मनःशिला पद्मनिभा रक्ता चैव सुशोभना । स्वेदिता मुनिपुष्पस्य रसेनव तु दोलया ॥१०॥ याममर्धमिता शुद्धा सर्वकार्येषु योजयेत् । न० वसारस्तथा सूतः शोधितोऽग्निसेहः खलु ॥ ११ ॥ समभागानि सर्वाणि मर्दयनिंबुकीरसैः । मातुरूंगरसेनैव कुमारी स्वरसेन च ॥ १२ ॥ सूर्यातपे विमर्योऽसौ पाचतो जलयंत्रके। दिनानि त्रीणि तीव्राग्नौ कुर्यात्तदवतारयेत् ॥ १३ ॥ शतांशे वेधयेत्तारं शुद्धं हेम प्रजायते । जलभदो यदा न स्यान्नात्र कार्या विचारणा ॥ १४॥ शिलया मारितं नागं कुमार्या स्वरसेन तु । पुटद्वादशयोगेन नागभस्में प्रजायते ॥ १५ ॥ शतसंख्यानि वै कुर्यात् पुटान्येवं शरावके । कुमार्या स्वरसेनैव भावयेदिनसप्तकम् ॥ १६॥ पूर्ववत्पुटनं कार्य शतसंख्यामतं तथा।। सूतगंधशिलाद समं चेन्नागभस्मकं ।। १७ ॥ त्रिशद्वनोत्पलैर्दद्यात्पुटं वाराहसंज्ञकम् ॥ अनेन विधिना सम्यक् शतसंख्यानि दापयेत् ॥ १८ ।।, 1 दरदे रसदेशीयं । ८, २ तोऽग्निमतिस्थले । ८. ३ तारभस्म ! 8. र शिलारसमं । ८,