पान:भारतीय रसायनशास्त्र भाग २.pdf/206

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

पारदकल्पांतील उतारा. १९९ विद्धि सिद्धिर्न जायेत ऊर्ध्वदेही यथाक्रमः । विधिहीने नैव सिद्धिः ऊर्ध्वकर्मकरी क्रिया ॥ ३४ ॥ ज्ञानिने विधिहनेन वर्धयेदुत्तरोत्तरम् । विधिहीनेन भक्षेण जायते पापसंचयः ॥ ३५ ।। विशेषं जायते चैव अनिच्छा महती भवेत् ।। साधके धीरवीरेण गंधके वासना सदा ॥ ३६॥ वासिनाबंधिता तेच (?) पुनर्भक्षणमाप्नुयात् । पुनर्गधकके प्राप्तिः गुणातीतो भवेन्नरः ।। ३७ अनेनैव प्रकारेण विधिसाध्यो भवंति हि । तस्मात्तेन पदं दत्ते विशेषा गंधकी विधिः ॥ ३८ ॥ यत्नेनैव तु कर्तव्या साधके सुभगे जने। पार्वत्यु० । कथ्यतां देवदेवेश सांप्रतं पारदी विधिः ॥ ३९ ॥ सर्वसौख्यकरी या च अधुना वदमे प्रभो।। महादेव० । अगाध बोधगतिश्चेत् पारदेन सदैवहि ॥ ४० ॥ साधनं कथयिष्यामि यथा बुद्धयेत सांप्रतम् । कथयिष्यामि ते भद्रे सर्वसिद्धांत देहिकः ।। ४१ ॥ अश्वमेधाधिकं पुण्यं यथा बुध्येत सांपतम् ।। शृणु भद्रे प्रवक्ष्यामि रसराजविधानकम् ॥ ४२ ॥ यथा बुध्येनते शुद्धं समूहाभावितं यथा ।। प्रथमं दोषनिर्मुक्तिः सप्तकंचुकवर्जनं ॥ ४३ ॥ सकृत् (च) पंचदोषस्य पारदे सिद्धिकाम्यया ।। अथातः संप्रवक्ष्यामि विधि पारद संभव ।। ४४ ॥ ब्रह्मचर्य भुविस्वापं हविष्यान्नं च भोजनं । मधुरं चैव संस्कारो पारदेन सदैव हि ॥ ४५ ॥ क्रियाभ्रष्टे न सिध्यंति तपोनष्टे फलं न हि । सूतदोषास्ततः शुद्धिसंस्काराः प्राग्वदाम्यहं ।। ४६ ॥ १ ० देशिकः । हविषान्नस्य०