पान:भारतीय रसायनशास्त्र भाग २.pdf/205

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१९८ भारतीय रसायनशास्त्र, पार्वत्युवाच । वारंवार विशेषस्तु गंधके चैव वृद्धिकं । | क्रियते सदा परानंद कथ्यते वद मे प्रभो ॥ २१ ॥ महादेव उवाच । गंधके पारदे चैव अंतरं जायते सदा ।। गंधके महती सिद्धिः पारदे च मनोहरा ॥ २२ ॥ पार्व०। मनोहरा महात्सद्धिः तत्क्षणं किं विधीयते । कथ्यतां देव देवेश भावनैस्तु सुकल्पना ॥ २३ ॥ महा० । गंधके कोपता सिद्धबुधे वा तुप्य धीयते १।। पशुकीटपतंगेन भक्षणे परमा गतिः ॥ २४ ॥ मानुष्य उत्तमं ज्ञानं पशूनां ज्ञानमुत्तमम् । सरीसृपे न कीटे न ज्ञानं चास्ति सदैव हि ॥ २५ ॥ अज्ञानं भासितं गंधं सिद्धिदं सर्वकामदम् ।। किमेतत्ज्ञानयुक्तेन सर्वा सिद्धः कथं नाहि ॥ २६॥ रसेन ज्ञानयुक्तेन भक्षिते सिद्धिरुत्तमा । जायते नात्र संदेहो सिद्धिसाधक उत्तमा ॥ २७॥ अबुद्धे नैव जायेत मृत्युना सनकोविधि । सुबुद्धे सकला सिद्धिर्जायते परसंभवा ।। २८ ॥ यथा च नर्मदातीरे ज्ञात्वा वापि मृतोऽपि चेत् । परमागतिर्जायेत योगयुक्ततया सदा ॥ २९ ॥ तथा च गंधकाशिनो भक्षणे शुभमानुयुः ।। सकृदाभक्षणे ते च पापाहोरात्रसंभवम् ॥ ३० ॥ मुच्यते नात्र संदेहो नान्यथा वचनं मम । पार्व० । भवता पूर्वमुक्तं हि गंधकं भक्षणं शुभम् ॥ ३१ ॥ ये उपासन हितेन तेनैव भक्षणजायते ( १ )। उपायके शुभं धरे सिद्धिसाधनसंयुते ॥ ३२ ॥ अज्ञानं नैव जायेत पुरा प्रोक्तं भवद्वचः (१ )। महादेव० । उपासनाविहीनेन किंचित्सकृत भक्षणे ॥ ३३ ॥ १ उपासके