पान:भारतीय रसायनशास्त्र भाग २.pdf/201

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१९७ उतारे व टिपणे. गिरिडोपलसाठी च संशुष्कच्छगणाभिदाः । काचायो मृच्छराटानां कूपिकाचषकानि च ॥ ३३॥ कूपिका कुपिका सिद्धा गोला चैव गिरिंडिका । चषकं च कटोरी च वाटिका खारिका तथा ॥ ३४ ॥ कंचोली ग्राहिका चेति नामान्येकार्थकानि हि । शूर्पादिवेणुपात्राणि क्षुद्रशिप्राश्च शंखिकाः ॥ ३५ ॥ क्षुरपश्च तथा पाक्यो यच्चान्यत्तत्र युज्यते । पालिका कार्कि (र्णि) का चैव शाकच्छेदनशस्त्रकाः ॥३६॥ शालासंमार्जनाचं हि रसपाकातकर्म यत् । तत्रोपयोगि यच्चान्यत् तत्सर्वं परि (र) विद्यया ॥ ३७॥ श्रीरसांकुशया सर्व मंत्रयित्वा समाचरेत् । अन्यथा तद्गतं तेजः परिगृह्णन्ति भैरवाः ॥ ३८ ॥ रससंहितयोवृंद्या निघंटुज्ञाश्च वार्तिकाः । सर्वदेशजभाषाज्ञाः संग्राह्यास्तेपि साधकैः ॥ ३९ ॥ रसपाकावसानं हि सदाऽघोरं च जापयेत् । सोचमाः शुचयः शूरा बलिष्ठाः परिचारकाः ॥ ४० ॥ धर्मिष्ठः सत्यवाक् विद्वान् शिवकेशवपूजकः । सदयः पद्महस्तश्च स योज्यो रसवैद्यके ॥ ४१ ॥ पताकाकुंभपाथोजमत्स्यचापांकपाणिकः । अनामधस्थरेखांकः स स्यादमृतहस्तवान् ॥ ४२ ॥ अदैष्टिको कृपामुक्तो लुब्धो गुरुविवार्जितः । कृष्णरेखाकरो वैद्यो दग्धहस्तः स कथ्यते ॥ ४३ ॥ भूतानि (वि) ग्रहमंत्रज्ञास्ते योज्या निधिंसाधने । बलिष्ठाः सत्य (त्व ) वंतश्च रक्ताक्षाः कृष्णविग्रहाः ॥४४॥ भूतत्रासनविद्याश्च ते योज्या बलि ( बिल ? ) साधने । निळूभाः (माः) सत्यवक्तारो देवब्राह्मणपूजकाः ॥ ४५ ॥ ३९ ०संहितया वैयाः । ०संहितयो वैद्यः ।