पान:भारतीय रसायनशास्त्र भाग २.pdf/200

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

उतारे व टिपणे. १९३ स्थापन सिद्धवस्तूनां प्रकुर्यादीशकोणके ।। पदार्थसंग्रहः कार्यो रससाधनहेतुकः ॥ २० ॥ सत्वपातनकोष्ठों च झराकोष्टीं सुशोभनाम् ।। भूमिकोड़ीं चलत्कोष्ठी जलद्रोण्योप्यनेकशः ॥२१॥ भस्त्रिकायुगलं तद्वत्नालिके वंशलोहयोः । स्वर्णीयोघोषशुल्बाश्मकुंड्य (कुड्य) श्चर्मकृतां तथा ॥२२॥ करणानि विचित्राणि द्रव्याण्यपि समाहरेत् । कंडणी पेषणी खल्वा द्रोणीरूपाश्च वर्तुलाः ॥ २३ ॥ आयसास्तप्तखल्वाश्च मर्दकाश्च तथाविधाः ।। सूक्ष्मच्छिद्रसहस्राढ्या द्रव्यगालनहेतवे ॥ २४ ॥ चालनी च कटत्राणि शलाकाभिश्च खंडनी । चालनी त्रिविधा प्रोक्ता तत्स्वरूपंच कथ्यते ॥ २५ ॥ वैणवीभिः शलाकाभिनिर्मिता ग्रथिता गुणैः। कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ॥ २६ ॥ चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा । कर्णिकारस्य शाल्मल्या हरिजातस्य कम्वया ॥ २७ ॥ चतुरंगुलविस्तारयुक्तया निर्मिता शुभा । कुडल्यरीत्नीवस्तारा छागचमाभिवेष्टिता ॥ २८ ॥ वाजिवालांवरानद्धतला चालनिकापरा ।। तया प्रचालनं कुर्यात् हर्तुः (धर्तु) सूक्ष्मतरं रजः ॥ २९ ॥ मूषामृत्तषकापसवनोपलकापिष्टकम् । त्रिविधं भेषजं साधु (धातु)जीव मूलमयं तथा ॥ ३० ॥ शिखित्रा गोर्वरं चैव शर्करा च सितोपला। शिखित्राः पावकोच्छिष्टा अंगाराः कोकिला मताः ।। ३१ ।। कोकिलाचेतितांगाराःनिर्वाणा पयसा विना । पिष्टकं छगणं छाणमुपलं चोत्पलं तथा ॥ ३२ ॥ २५