पान:भारतीय रसायनशास्त्र भाग २.pdf/18

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
३ रे. ]
रसविद्या व जीवन्मुक्ति



भूतलविधेयतायाः कथमर्था विविधभोगफलाः ।।
भोगाः संति शरीरे; तदनित्यमहो वृथा सकलम् ॥ ९ ॥
इति धनशरीरभोगान् मत्वाऽनित्यान् सदैव यतनीयम् ॥
मुक्तौ; साच ज्ञानात्, तच्चाभ्यासात् स च स्थिरे देहे ॥१०॥
तत्स्थैर्ये न समर्थं रसायनं किमपि मूललोहादि ।
स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ॥ ११ ॥
काष्ठौषध्यो नागे, नागं वंगेऽथ, वंगमपि शुल्बे ॥
शुल्बं तारे, तारं कनके; कनकं च लीयते सूते ॥ १२ ॥
परमात्मनीव नियतं भवति लयो यत्र सर्वसत्वानाम् ॥
एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥ १३ ॥
अमृतत्वं हि भजंते हरमूर्तौ योगिनो यथा लीनाः ॥
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः ॥ १४ ॥
स्थिरदेहेऽभ्यासवशात् प्राप्य ज्ञानं §गुणाष्टकोपेतम् ॥
प्राप्नोति ब्रह्मपदं; न पुनर्भववासदुःखानि ॥ १५ ॥
एकांशेन जगंति च विष्टभ्यावस्थितं परंज्योतिः ॥
पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण ॥ १६ ॥
न हि देहेन कथंचित् व्याधिजरामरणदुःखविधुरेण ॥
क्षणभंगुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम् ॥ १७ ॥
नामापि देहसिद्धेः को गृण्हीयात् विना शरीरेण ॥
तद्योगिगम्यममलं मनसोऽपि न गोचरं तत्वम् ॥ १८ ॥
यज्ञाद्दानात्तपसो वेदाध्ययनात् दमात्सदाचारात् ।।
अत्यंतं श्रेयः किल योगवशादात्मसांवत्तिः ॥ १९ ॥
गलितानल्पविकल्पः सर्वार्थविवर्जितश्चिदानंदः ।।
स्फुरितोप्यस्फुरिततनो: करोति किं जंतुवर्गस्य ॥ २० ॥
भ्रूयुगमध्यगतं यत् शिखिविद्युन्निर्मलं जगद्भासि ।।
केषांचित्पुण्यकृतां उन्मीलयति चिन्मयं ज्योतिः ॥ २१ ॥
परमानंदैकमयं परमं ज्योतिःस्वभावमविकल्पं ।।
विगलितसर्वक्लेशं ज्ञेयं शांतं स्वसंवेद्यम् ।। २२ ॥


§ हे ‘आत्मगुण ' ह्मणून आठ गुण प्रसिद्ध आहेत. चाळीस किंवा सोळा संस्कार व आठ आत्मगुण मिळून मनुष्य तयार होतो.