पुराणनिरीक्षण, पूर्वभागे । स्वर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरात् । .. मन्वंतरेषु वंशाश्च राज्ञां येऽन्यत्र कीर्तिताः || गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् । मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् || दानधर्मा राजधर्मा विस्तरेणोदितास्तथा । भूमिपातालकव्योमचारिणां यत्र निर्णयः ॥ व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ॥ तदुत्तरभागे । उत्तरे तस्य भागे तु नर्मदातीर्थवर्णनम् । शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर ॥ यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः । स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम् ॥ इदं ब्रह्मा हरिरिदं साक्षाच्चेदं परो हरः । इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलं ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः । शक्तिः कापि सरिद्र्पा रेवेयमवतारिता ॥ ये वसंत्युत्तरे कूले रुद्रस्यानुचरा हि ते । वसंति याम्यतीरे ये लोकं ते यांति वैष्णवम् || ओंकारेश्वरमारभ्य यावत्पश्चिमसागरम् । संगमा: पंच च त्रिंशन्नदीनां पापनाशनाः ॥ दशैकमुत्तरे तीरे त्रयोविंशति दक्षिणे । पंचत्रिंशत्तमः प्रोक्तो रेवासागरसंगमः ॥
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/७९
Appearance