Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१७०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरें. माहात्म्यं वैष्णवानां च नारसिंहस्तवोत्तमम् || ज्ञानामृतं गुह्याष्टकं स्तोत्रं विष्ण्वर्चनाव्यम् । वेदांतसांख्य सिद्धांतं ब्रह्मज्ञानं तथात्मकम् || गीतासारफलोत्कीर्तिः पूर्वखंडोऽयमीरितः ।। अथाऽस्यैवोत्तरे खंडे प्रेतकल्पः पुरोदितः । यत्र तार्येण संपृष्टो भगवानाह वाडवः ॥ धर्मप्रकटनं पूर्वयोनीनां गतिकारणम् । दानाधिकं फलं चापि प्रोक्तं मंत्रौर्ध्वदेहिकम् || यमलोकस्य मार्गस्य वर्णनं च ततः परम् । षोडशश्राद्धफलकं वृत्राणां चात्र वार्णितम् । निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् || प्रेतपीडाविनिर्देशः प्रेतचिन्हनिरूपणम् । प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ॥ प्रेतकृत्यावेचारश्च सपिंडकरणोक्तयः । प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये || आवश्यकोत्तमं दानं प्रेतसौख्यकरं हितम् । शारीरकविनिर्देशो यमलोकस्य वर्णनम् ।। प्रेतत्वोद्धारकथनं कर्मकर्तृविनिर्णयः । मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम् ॥ मध्यं षोडशकं श्राद्धं स्वर्गप्राप्तिक्रियोहनम् । सूतकस्याऽथ संख्यानं नारायणबालक्रिया || वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् । १५५