Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१६९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१५४ निरीक्षण. पूजा माहेश्वरी चातः पवित्रारोहणार्चनम् । मूर्तिध्यानं वास्तुमानं प्रासादानां च लक्षणम् ॥ प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः । योगोऽष्टांगो दानधर्मः प्रायश्चित्तं निधिक्रिया | द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम् || सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् । माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् । ततो मन्वंतराख्यानं पृथक् पृथक् विभागशः ॥ पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिसमर्पणम् । श्राद्धं विनायकस्यार्चा ग्रह यज्ञस्तथाऽऽश्रमाः || मननाख्या प्रेताशौचं नीतिसारो व्रतोक्तयः । सूर्यवंशः सोमवंशोऽवतारकथनं हरेः ॥ रामायणं हरिवंशो भारताख्यानकं ततः । आयुर्वेदे निदानं ग्राफ् चिकित्सा द्रव्यजा गुणाः ॥ रोगघ्नं कवचं विष्णोः गारुडं त्रैपुरो मनुः । प्रश्नचूडामणिश्चांत्ये यायुर्वेदकीर्तनम् ॥ औषधीनामकथनं ततो व्याकरणोऽहनम् । छंदःशास्त्रं सदाचारखतः स्नानविधिः स्मृतः ॥ तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च । नित्यश्राद्धं सपिंडाख्यं धर्मसारोऽघनिष्कृतिः ॥ प्रतिसंक्रम उक्तोऽस्माद्युगधर्माः कृतेः फलम् । योगशास्त्रं विष्णुभक्तिः नमस्कृतिफलं हरेः ।