पान:नित्यनेमावली.pdf/४३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्रार्थना (१) याचेऽहं करुणासिन्धो यादज्जीवमिदं तव । अदैन्यं देहदाढयं च त्वत्पादाम्बुजसद्मतिम् ||१|| अनाद्यनन्तकालेषु भृत्योऽहं त्वां हि मे प्रभो । स्वं तुष्टो वाऽथ रुष्टो वा त्वां विना मे गतिर्नहि || २ || तुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे || रुन्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ॥ ३॥ दोषाणां च सहिष्णुत्वे त्वत्समो नास्ति भूतले । मत्समो नहि देवेश कृतघ्नो वञ्चकोऽपि वा ॥४॥ ईशस्य खिलवीर्यस्य किमसाध्यं वदाच्युत ममेष्टं च कियन्मात्रं किमेतावद्विलम्बनम् ।।५।। जगत्स्वामी कृपापूर्ण: सम्भवेन्निर्दयापरः | का तदा गतिरस्माकं गरदायां स्वमातरि ।।६।। त्वमेवैको जगत्त्राता दाता ज्ञाता दयान्वितः | त्वां विना कः पुमान् कर्ता ह्यस्माकं तु मनोरथम् ||७|| आतंबन्धुरिति ज्ञात्वा त्वामहं शरणं गतः । रक्षमामथवा सम्यक् त्वं यशो मुञ्च शाश्वतम् ||८|| दीनबन्धो दयासिन्धो सुहृद्बन्धो जगत्पते । संसारार्णवमग्नं मां कारुण्येन सुमुद्धर ||९||