याचेऽहं करुणासिन्धो यावज्जीवमिदं तव ।
अदैन्यं देहदार्ढ्यं च त्वत्पादाम्बुजसद्मतिम् ||१||
अनाद्यनन्तकालेषु भृत्योऽहं त्वां हि मे प्रभो ।
त्वं तुष्टो वाऽथ रुष्टो वा त्वां विना मे गतिर्नहि || २ ||
तुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ||
रुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ॥ ३॥
दोषाणां च सहिष्णुत्वे त्वत्समो नास्ति भूतले ।
मत्समो नहि देवेश कृतघ्नो वञ्चकोऽपि वा ॥४॥
ईशस्यखिलवीर्यस्य किमसाध्यं वदाच्युत |
ममेष्टं च कियन्मात्रं किमेतावद्विलम्बनम् ।।५।।
जगत्स्वामी कृपापूर्ण: सम्भवेन्निर्दयापरः |
का तदा गतिरस्माकं गरदायां स्वमातरि ।।६।।
त्वमेवैको जगत् त्राता दाता ज्ञाता दयान्वितः |
त्वां विना कः पुमान् कर्ता ह्यस्माकं तु मनोरथम् ||७||
आर्तबन्धुरिति ज्ञात्वा त्वामहं शरणं गतः ।
रक्षमामथवा सम्यक् त्वं यशो मुञ्च शाश्वतम् ||८||
दीनबन्धो दयासिन्धो सुहृद् बन्धो जगत्पते ।
संसारार्णवमग्नं मां कारुण्येन सुमुद्धर ||९||