पान:केतकी ग्रहगणितम् ।.pdf/9

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

मध्यमाधिकारः। ( य युतं सज्जातो मासगणः १८० । इमं स्थानद्वये स्थापयित्वा तयोरादिमाच्चक्रस्य पंचमांशेन • तथा दशभिश्च संयुक्तात् १९० त्रयस्त्रिंशता भक्ताल्लब्धा अधिमासाः ५ । एभिरन्यत्र स्थापितः सौरमासगणः १८० संयुतः सन् जातश्चांद्रमासगणः १८५ ॥ चांद्रमासाः १८५ त्रिंशद्गुणाः ५५५० गततिथिभिः १४ युतास्तथा वर्ष. गणस्य षष्टिलवेन • रहिता जाताश्चांद्राहाः १९६४ । एतान्पृथक् चतुःषष्टया विभज्य लब्धैः क्षयाहैः ८६ चांद्रदिनेषु रहितेषु जातः सावनोऽहर्गणः ५४७८ । अथाहर्गणशुद्धिपरीक्षायै वारः साध्यते । चक्रं ० त्रिगुणं ० अनेन यतेऽहर्गणे सप्ततष्टे सति लब्धं शेषं ४ । शून्यमितशेषस्य बुधवासरोपलक्षणत्वाल्लब्धं शेषं रविवासरं द्योतयति । परं प्रकृतोदाहरणे शनिवासरस्यापेक्षायाः पूर्वसिद्धोऽहर्गणो निरेकः करणीयः । अत एवाभीष्टे दिवसे प्रातःकाले गताहर्गणः ५४७७ । सैकनिरेकीकरणे श्रीभास्कराचार्याणां वचनम्-- " अभीष्टवारार्थमहर्गणश्येत्सैको निरेकः सुधिभिर्विधेयः " ॥ " स्पष्टोऽधिमासः पतितोऽप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः । सैकैर्निरेकैः क्रमशोऽधिमासैस्तदा दिनौघः सुधिया प्रसाध्यः" ॥ क्षेपकाः। महेशा ११ नवाब्जाः १९ शरा ५ भास्करस्य महेशाः ११ शरौष्ठा २५ नगाब्जाः १७ सुधांशोः। दिशो १० भानि २७ नेत्राश्विनो २२ ऽब्जोच्चविदोनवा ९ व्यश्विनः २७ सप्तरामा ३७ स्तु राहोः ॥ ३ ॥ पृथग् दृङ्नवार्काः २।९।१२ कुजक्षेपकः स्याधरित्री १ यमौष्ठाः २२ खरामा ३० बुधस्य । ग्रहा ९ मागेणाः ५ शून्यवेदा ४० गुरोश्च रसाः ६ पंचचंद्रा १५ गजौष्ठाः २८ सितस्य ॥ ४ ॥ महेशा ११ गजा ८ भूमिपक्षाः २१ शनेश्व शके खाभ्रनागेंदु १८०० तुल्ये गतेऽब्दे ।