पान:केतकी ग्रहगणितम् ।.pdf/8

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. उज्जयनीरेखा। जालंदरं जयपुरं खलु सौम्यदेशे टोंकं च कोटपुरमुज्जयिनी च मध्ये । याम्ये भुसावळमसायिपुरं बिडं च सोलापुरं तदनु बागलकोटसंज्ञम् ॥ ६ ॥ कर्णाटके हरिहरं चिकमंगळूरं मड्केरिपूरुदधितीरगकल्लिकोटम् । मेरूज्जयिन्युपरिगप्रथमाख्यरेखासांनिध्यवन्ति नगराणि सुनिश्चितानि ॥ ७ ॥ भूपरिधिः। पुरांतरं सूक्ष्मतरं सूर्यविवरैराधुनिकैः प्रमाय । शून्याभ्रतत्त्वो २५०० मितयोजनानि विनिश्चितं भूपरिधेः प्रमाणम् ८ अथमध्यमाधिकारः । तत्राऽऽदावहर्गणः। व्यभ्राभ्रेभकु १८०० शकनंदचंद्र १९ लब्धि. श्वक्राख्या रवि १२ हतशेषकं तु युक्तम् । चैत्राद्यैः पृथगमुतः शरा ५ प्तचक्राशा १० युक्तादमर ३३ फलाधिमासयुक्तम् ॥ १॥ खत्रि ३० नं गततिथियुक् शरद्णाभ्रांगां ६० शोनं पृथगमुतोऽब्धिषटक ६४ लब्धैः । ऊनाहैवियुतमहर्गणो भवेद्वै वारः स्याद्गुण ३ हत चक्रयुग्गणो ज्ञात् ॥ २ ॥ अत्रोदाहरणम् । शालिवाहनशकवर्षेषु १८१५ गतेषु चैत्रशुक्लपौर्णमास्यां शनिवासर उज्जयिन्यां प्रातःकालेऽहर्गणं कथय । अत्राभीष्टं शकवर्ष १८१५ अभ्राभ्रेभकुभिः १८०० विरहितं सत् शेषं १५ वर्षगणः । अस्मान्नंदचंद्र १९ भक्ताल्लब्धिः ० चक्रसंज्ञा । शेषं १५ द्वादशगुणं १८० चैत्रादिगतमासैः ०