पान:केतकी ग्रहगणितम् ।.pdf/86

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. उपेक्षणयिा तस्मात्पुनर्भुजांतरानयनमप्यनवश्यम् । अतः पातमध्यकालो नाम सूर्यचंद्रयोः क्रांतिसाम्यकालो बुधवासरे घ. ५३.० इति सिद्धम् । सूचना-यदा रविक्रांतिश्चंद्रपरमक्रांतिसमा स्वल्पांतरा वा भवेत्तदैवासकृद्भुजांतरगणितप्रसंगः । ५ ॥ पातस्य भावाभावे संशयः। पातस्य स्थूलकालेऽर्कक्रांन्त्यां चंद्रपरापमात् । अर्धा शेन गरीयस्यामपि पातो भवेत्कचित् ॥ २० ॥ अस्मिन्प्रसंगे चंद्रस्य भुजं राशिवयोन्मितम् ।। मत्वा भुजांतरं साध्यं शेषं पूर्वोक्तवत् खलु ॥ २१ ॥ जाममा पातस्य प्रवेशनिर्गमौ ।। चंद्रस्य परमक्रांतेरंशाः पंचगुणास्तथा । चंद्रकोटिज्यया निघ्ना हारः स्यात्स्थितिसाधकः ॥ २२ ।। पातयोगाद्यतनाड्यो रुद्र ११ न्यो हारभाजिताः। स्थितिस्तद्धीनयुमध्ये क्रमादारंभनिर्गमौ ॥ २३ ॥ उदाहरणम् । चंद्रस्य परमक्रांतिभागाः १९.५ पंचगुणाः ९७.९, इमे चंद्रभुजः ३७.० अस्य कोटी ५३° ज्यया .८०० गुणिता जातो हारः ७८। पातयोगस्याऽऽयंतनाड्यः ५२ रुद्रगुणाः ६७२ हारेण ७८ भक्ता जाताः स्थितिनाड्यः ७.३। आभिः पातमध्यघट्यः ५३.० एकत्र रहिता जातः पातप्रवेशकालः घ. ४५.७, अन्यत्र यता जातः पातनिगमः घ. ६०.२। गणितस्य सारम् । शके १८०५ श्रावणकृष्णपक्षे ४ — तिथौ बागलकोटे बुधवासरे मध्यमप्रातःकालात् व्यतिपातस्य प्रवेशः घ. ४५.७ मध्यः घ. ६३.० निर्गमः घ. ६०.३ अथवा गुरुवासरे घ. ०.३। इति श्रीमद्रामकृष्णमतवेंकटेशविरचितायां केतक्यां पाताधिकारो दशमः समाप्तः ॥ १० ॥