पान:केतकी ग्रहगणितम् ।.pdf/85

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पाताधिकारः। चंद्रसूर्ययोर्भुजांतरम् । सूर्यक्रांति ११०.६ ज्या .२०१ चंद्रपरमक्रांति १९०.५४ ज्यया .३३४ भक्ता जाता चंद्रभुजज्या .६०२, अस्याश्चापं चंद्रभुजः ३७०.०३ । रविभुजस्तु ३००.६० । अनयोरंतरं भुजांतरमित्यत्र परिभाषितं ६०.५३ । इदमंशरूपम् । योगरूपार्थमिदं ६.५३ त्रिगुणीकृत्य १९.९९ चत्वारिंशता भक्तं जातं योगरूपं भुजांन्तरं .४९० । एवं हि सध्यंशा - ८.३१ त्रिगुणाः-२४.९३ चत्वारिंशता भक्ता जातो योगरूपः संधिः - ०.६२३ । अथ भुजांतरस्य धनर्णत्वम् । सर्यस्य परमक्रांतिः २३ । २८ चंद्रकक्षापरमक्रांत्यपेक्षया १९॥३३' अधिका । अतो भुजांतरस्य धनर्णत्वं रविपदस्य धनर्णत्वमनुसरति । रविः १४९.५ द्वितीये नाम समपदे तिष्ठति । समपदस्य धनत्वाद्भुजांतरमपि धनम् । अत्र यदि रविपरमक्रांतिश्चंद्रपरमक्रांत्यपेक्षया न्यूनाऽभविष्यत्तदा भुजांतरं रविपदाव्यस्तपदीयं नामात्र विषमपदीयमृणमभविष्यत् ॥ पातमध्यकालः। पातसंभवयोगे च युञ्जयात्संधि भुजांतरम् । ऐक्यं स्पष्टतरो योगस्तस्य कालस्तु पूर्ववत् ॥ १६ ॥ रवेस्तात्कालिकक्रांत्या पुनः साध्यं भुजांतरम् । कल्पयेत्सुस्थिरं संधि तथाऽब्जपरमापमम् ॥ १७ ॥ पातसंभवयोगे च पुनः संधि भुजांतरम् ॥ युञ्जयात् स्पष्टतमः स स्यात् तस्य कालश्च पूर्ववत् ॥ १८ ॥ एवं सूर्यापमो यावदविशेषः पुनः पुनः। प्रायो द्विर्गणितः पातमध्यकालः स्फुटो भवेत् ॥ १९ ॥ उदाहरणम् । व्यतिपातसंभवयोगे १०.१७ संधि - ०.६२ भुजांतरं +०.४९ च संयुज्य लब्धः स्पष्टतरो योगो व्यतिपातमध्यकालदर्शकः १०-०४॥ अथास्य कालः । अस्य स्पष्टतरपातयोगस्यावयवः .०४ सार्वयोगघटीभिः ५२ गुणितो जाता घट्यः २.१ । एतासु पूर्णयोगवटीषु ५०.९ संयुक्तासु जातः पातमध्यकालः स्पष्टतरः घ. ५३.० । एतत्कालिकी रविक्रांतिः पुनः साधिता चेत् सा पूर्वानीताया रविक्रांत्याः + ११.६ कलाद्वयं न्यूनोपलभ्यते, अत