पान:केतकी ग्रहगणितम् ।.pdf/87

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

समाप्तिः। अथ शके १८०० वर्षात्प्राक्तने कालेऽहर्गणानयनम् । शाकोनाभ्रखधृति १८०० नंदचंद्र १९ लब्धिश्चक्राख्या रवि १२ हतशेषकं तु हीनम् । चैत्रायैः पृथगमुतः शरा ५ प्तचक्रधृत्या १८ व्यादमर ३३ फलाधिमासयुक्तम् ॥ १ ॥ खत्रि ३० घ्नं तिथिरहितं शरद्गणाभ्रांगां ६० शोनं पृथगमुतोऽब्धिषट्क ६४ लब्धैः। ऊनाहैवियुतमहर्गणो भवेद्वै वारः प्राग्गुण ३ हतचक्रयुग्गणो ज्ञात् ॥ २ ॥ उदाहरणम् । शके १४४२ चैत्रशुक्लप्रतिपदि सोमवासरे प्रातःकाले गताहर्गणमानय । अभ्रखधृतयः १८०० शाकेन १४४२ ऊना जातो वर्षगणः ३५८ अस्य नंदचंद्र १९ लब्धिः १८ चक्राणि । शेषं १६ रविहतं १९२ चैत्राद्यैर्मासैः ० हीनं १९२ । अस्मात्पृथक् १९२ शरा ५ प्तचक्रैः ३ धृत्या च १८ आढ्यात् २१३ अमर ३३ फलाधिमासैः ६ युक्तम् १९८ । इदं १९८ खत्रि ३० नं ६९४० गततिथि ० युक् ६९४० तथा शरद्गणः वि ३५८ अस्याभ्रांगां ६० शेन ६ ऊनं ५९३४ । अस्मात्पृथक् ५९३४ अब्धिषट्रैः ६४ लब्धैरूनाहैः ९२ वियुतं जातोऽहर्गणः ५८४२ प्राक्तनः । अहर्गणे ५८४२ त्रिगुणचकैः ५४ युक्ते १८९६ सप्ततष्टे सति यत् शेषं २ तत् सप्तभ्यो विशोध्य जनितो वारः ६ । शून्यं बुधवारं प्रकल्प्य वारे गणिते लब्धः सोमवारः । वारसाम्यादिदं गणितं प्रमादरहितमिति सिद्धम् । अस्मिनवधौ ग्रहलाघवपक्षे चक्राणि ३२ अहर्गणः २२५० । केतकीपक्षे चक्राणि १८ अहर्गणः ९८४२ । ग्रहलाघवपक्षे चक्रदिनानि ४०१६ केतपिक्षे ६९४० । अत उभयपक्षीयाणि चक्राणि स्वस्वचक्रदिनैर्गुणितानि स्वस्वाहर्गणेन युक्तानि चेत् उभाभ्यामखंडाहर्गणाभ्यां समाभ्यां भवितव्यम् । यथा शा. वा. शकवर्षयोः १४४१ - १८०० मध्यगता दिनसंख्या । ग्रहलाघवपक्षेण (४०१६ X ३२)+ २२५० = १३०७६२ दिवसाः । केतकीपक्षेण (६९४०४ १८)+ ५८४२ = १३०७६२ दिवसाः । इति प्रागर्हगणगणितम् ।