पान:केतकी ग्रहगणितम् ।.pdf/84

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. सरे गंडयोगो घ. ६०.९, गुरुवासरे वद्धियोगः घ. ४२.९ इति पंचांगे लिखितं । पातयोगः १०.१७ अस्यावयवः .१७ अयं वद्धियोगस्य भुक्तांशः । अतो वृद्धियोगस्याऽऽयंतावधिना घ. १२ भुक्तांशं .१७ संगुण्य लब्धा घटिकाः ८.८ गंडयोगवटीषु १०.९ संयोज्य जनितो व्यतिपातस्य स्थूलकाल: . ६९.७ घट्यः । एतत्कालिकः पंचांगात्साधितः सायनराहुः २१५०.६, सायनरविः १४९०.६ रविभुजः ३०.५, रविक्रांतिः उ. ११०.६ । सायनराहुं २१५०.६ केंद्रं प्रकल्प्य षड्भाल्पं १४४०.४ कृत्वा तेन क्रांतिपद्याल्लब्धेषु क्रांत्यसुषु १२४ त्र्यात्यधिकं शतमसन् १८३ क्षिप्त्वा १९९.४ दशभिर्विभज्य साधिता चंद्रपरमकांतिः १९.५४ । एवं हि चंद्रकक्षोदग्गोलसधिः ८.३१ लभ्यते । सायनराहोस्तुलादिषडभे स्थितेनायं ऋणं - ८.३१ । पातस्य भावाभावे निर्णयः।। पातस्य स्थूलकालेऽर्कक्रांत्यां चंद्रपरापमात् । लघीयस्यां भवेत्पातोऽन्यथा नैवेति कीर्तयेत् ॥ ११ ॥ प्रकृतोदाहरणे स्थूलपातकालिका सूर्यक्रांतिः + ११०.६ चंद्रस्य परमक्रांयपेक्षया १९.५४ लघीयसी । अतोऽस्मिन् दिवसे पातेनावश्यं भवितव्यम्। सूक्ष्मपातकालज्ञानार्थ भुजांतरम् । सूर्यापमज्यां चंद्रस्य परक्रांतिज्यया हरेत् ॥ लब्धेश्चापं विधोर्दोः स्यात्सिद्ध एव रवेर्भुजः ॥ १२ ॥ भुजयोरंतरांशाश्व संध्यंशाश्च गुणैर्गुणाः । चत्वारिंशद्विभक्ताश्चेद्योगरूपा भवति ते ॥ १३ ॥ भुजांतरस्य धनर्णत्वम्। सूर्यस्य परमा क्रांतिग्लौंपरक्रांतितोऽधिका। चेदकपदमाश्रित्य धनर्ण स्याद्भुजांतरम् ॥ १४ ॥ अन्यथाऽकंपदाव्यस्तं धनर्ण स्याद्भुजांतरम् ॥ धनं समपदं ख्यातमृणं विषममेव हि ॥ १५ ॥