पान:केतकी ग्रहगणितम् ।.pdf/83

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पाताधिकारः। पंचाभ्रचंद्राः कुनवाग्निशैला भूमार्गणाः षड्चमला वियच्च । ग्लौगोलसंधेरसवः क्षयस्वं तुलाजषड्भे सति सायनागौ ॥५॥ गोलसंधेरसवः ०, १७, ३३, ४९, १५, ७९, ९१, १०२, १११, ११७, १२०, ११९, ११४, १०५, ९१, ७३, ५१, २६, ० । सायनराहुं केंद्र प्रकल्प्य मंदफलरीत्या गोलसंध्यसवः साध्याः । इमे चंद्रक- " क्षाविषुववृत्तयोरुदग्गोलसंधिस्था विषुवांशाः । 10 पातदिननिर्णयः । त्रिनिनायनभागानां विशांशेन विवर्जिताः। साविश्वे १३३ तथा मानि २७ व्यतिपातस्य वैधतेः ॥ ६ ॥ क्रमेण पातयोगौ स्तो यदिने तिथिपत्रके ॥ एतावंतौ च योगौ स्तस्तदिने संभवस्तयोः ॥ ७ ॥ उदाहरणम् । शकवर्षे १८०६ पातदिनानि वद । अस्मिन् वर्षेऽयनांशाः २२०.२ त्रिगुणाः ६६०.६, एषां विंशांशो योगरूपः ३.३३, अनेन सार्धत्रयोदश सप्तविंशतिश्च पृथग्वर्जिता जात एकत्र व्यतिपातयोगः १०.१७, अन्यत्र वैधृतिपातयोगः २३.६७ । अतोऽस्मिन्वर्षे मासे मासे यस्यां तिथी गंडयोगो वर्तते तस्यां व्यतिपातो भवेत् तथा च यस्यां तिथौ शुक्लयोगो वर्तते तस्यां वैधृतपातो भवेदिति सामान्यो नियमः। पातस्य स्थूलकालः, उपकरणानि च । पातयोगस्यावयवः सार्वयोगघटीगुणः ।। पूर्णयोगस्य नाडीभिः पंचांगस्थाभिरन्वितः ॥ ८ ॥ पातकालो भवेत्स्थूल एतत्कालिकसायनौ । कुरु राहुरवी सूर्यक्रांतिं त्रिप्रश्न उक्तवत् ॥ ९ ॥ चंद्रस्य परमक्रांतिं गोलसंधि च राहणा। सायनेनैव खंडेभ्यः प्रागुक्तेभ्यः प्रसाधयेत् ॥ १० ॥ शके १८०५ श्रावणमासे कृष्णपक्षे ४ थ्या तिथौ पंचांगे गंडयोगोऽस्ति । अतोऽयं व्यतिपातसमयः । अस्मिन्समये व्यतिपातो भवेन्नवा भवति चेत्तस्य प्रवेशनिर्गमकालौ वद । उदाहरणम् । शके १८०५ श्रावणमासे कृष्णपक्षे ४ थ्यो तिथौ बुधवा