पान:केतकी ग्रहगणितम् ।.pdf/81

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

चंद्रशृंगोन्नत्यधिकारः। अथ चंद्रशंगोन्नत्यधिकारः वक्ष्यमाणप्रकारेण सिद्धा शृंगोन्नतिर्भवेत् । अवलोकयितुं योग्या संस्थिते क्षितिजे रवौ ॥ १ ॥ इष्टकाले स्पष्टरविं चायनांशान् विधोः शरम् । चंद्रसूर्यातरं सूक्ष्म तिथिपत्राकिलाऽऽनयेत् ॥ २॥ सूर्योद्मे त्रिभोनाकात्सूर्यास्ते सत्रिमार्कतः। क्रांतिय॑स्तैः पलाशैश्च संस्कृता स्युर्नता लवाः ॥ ३ ॥ व्यर्कचंद्रज्यया भाज्या चंद्रबाणभुजज्यका। तद्धनुर्नतसंस्कारस्तातास्ते नताः स्फुटाः ॥ ४ ॥ व्यर्कचंद्रज्यया निनी नतकोटीज्यका भवेत् । चंद्रोन्नतांशदोज्याऽस्या धनुश्चंद्रोन्नतांशकाः ॥५॥ चंद्रोन्नतांशकोटीज्याभक्ता या नतदोयंका। तद्धनुश्चंद्रशृंगौच्च्यं तत्स्यान्नतविलोमदिक् ॥ ६॥ उदाहरणम् । शके १८१५ आषाढशुक्ल ५ म्यां रविवासरे बागलकोटे रख्यस्ते चंद्रस्य कतरत् शृंगं कियत्प्रमाणमुन्नतं दृश्येत तद्वद । उक्तदिवसे बागकोटे रव्यस्तः घ. ३१।३० अस्मिन् काले स्पष्टो रविः ६५०.१, अयनांशाः २२०.४, चंद्रशरः-४०.४, चंद्रसर्यातरं ५९°। इह चंद्रशंगोन्नतिविलोकनकालः सूर्यास्तः । अतः सत्रिभसायनसूर्यस्य १७७०.५ क्रांतिः + १०.२ बागलकोटपलांशैर्व्यस्तदिक्कैः - १६०.२ संस्कृता जातास्त्रिभोनलग्नस्य नतांशाः - १५०.० । अथ नतांशसंस्कारः । चंद्रबाणभुजज्या + .०८, व्यर्कचंद्र ५९° भुजज्यया .८६ भक्ता जाता + .०९, अस्या धनुः + ६%, अयं संस्कारः शरदिको नामात्रोत्तरः, अनेन पूर्वानीतास्त्रिभोनलग्ननतांशाः --- १६° संस्कृता जाताः स्पष्टा नाम चंद्रसूर्यमध्यभेदिमहावृत्तस्य यत् त्रिभोनं लग्नं तस्य नतांशाः। नतांश - १०० कोटीज्या .९८ व्यर्कचंद्रज्यया ८६ गुणिता जाता चंद्रोन्नतांशदोा .८४, अस्या धनुश्चंद्रोन्नतांशाः ५७°, एषां कोटीज्यया .६४ नतांश - १०° दोा - .१७ भक्ता जाता - .३१, अस्या धनुः शृंगन