पान:केतकी ग्रहगणितम् ।.pdf/80

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

७२ केतकी. सति ग्रहदर्शनं क्षीयमाणे सति ग्रहलोपः स्यात् । लंबज्या नामाक्षकोटीज्या, धुज्या नाम क्रांतिकोटिज्या इति ज्योतिर्विदां परिभाषा सुप्रसिद्धा । उदाहरणम् । शके १८१५ चैत्रशुक्ल १५ बागलकोटे पूर्वक्षितिजे शुक्रस्य लोपो भवतीति प्रकल्प्य गणितं क्रियते । बागलकोटे पलांशाः + १६०, शुक्रक्रांति + १', अनयोः कोटीज्ये .९६, १.००, अनयोर्गुणकारः .९६ अनेन शुक्रस्य पलानि ६६ भक्तानि जातानि स्फुटानि ६९ । शुक्रसूर्ययोरस्तकालयोरियत्यंतरे शुक्रस्य पूर्वस्यां दिशि लोपः स्यादिति फलितम | अथ लोपदिनगणितम् । (पृ. ५१ द्रष्टव्यं ) उक्ते दिवसे रविशुक्रयोरुदयकालयोर्मध्येऽतरं पलानि ६१, इष्टांतरं प. ६९, अनयोरंतरं प. ८ । पलानि षड्गुणानि कला भवंति । अतः सूर्यशुक्रयोर्मध्येऽतरं कलाः ४८' तयोदिनगत्यंतरेण ७५' - १९' = १६' भक्त्वा लब्धानि दिनानि ३ । अतः शके १८१५ चैत्र शुक्ल १५ याः प्रागेभिर्दिवसैरर्थात् चैत्रशुक्ल १२ द्वादश्यां प्रातःकाले शुक्रः पूर्वस्यां सूर्यदीप्तौ लप्तो भवेत् । सूचना-चंद्रदर्शननिर्णयोऽनयैव रीत्या करणीयः । अथागस्त्यलोपदर्शनगणितम् । यूनाक्षमा सप्तगुणा लवाद्यं प्रथमं फलम् । ब्यूनाक्षभाया वर्गस्य पंचमांशो द्वितीयकम् ॥ ४ ॥ त्रयस्त्रिंशलवाः कल्प्याः फलमत्र तृतीयकम् । फलत्रयस्य संयोगः क्षेत्रांशा इति कीर्तितः ॥६॥ क्षेत्रांशैहीनयुक्तेषु द्विसप्तति ७२ लवेषु च । सूर्यागमे क्रमाल्लोपो दर्शनं कुंभजन्मनः ॥ ६ ॥ उदाहरणम् । उज्जयिन्यां पलभा अंगु. ५, त्र्यूना २ सप्तगुणा १४° इदमंशात्मकं प्रथमं फलम् । यूनाक्षभायाः २ वर्गस्य ४ पंचमांशः १० द्वितीयं फलम् । अमरलवाः ३३° तृतीयं फलम् । फलत्रयस्य संयोगः ४८° क्षेत्रांशाः एभिर्द्विसप्ततिलवाः ७२० हीना: २४०, युक्ताः १२०° । अतः सिद्धं यस्मिन् दिने सूर्यो मेषराशेः २४० अंशान् भुनक्ति तदिने उज्जयिन्यां सूर्यप्रभायामगस्त्य आत्मानमंतर्दधाति । ततोऽग्रे सूर्यो यदा सिंहराशिं प्रविशेत् तस्मिन् दिने स पुनराविर्भवेदिति ।। इति श्रीकेतक्या लोपदर्शनाधिकारोऽष्टमः ॥ ८॥.