पान:केतकी ग्रहगणितम् ।.pdf/79

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

युत्यधिकारः। सूचना । समकलसमये युतिमध्यो न भवति किं तु शुक्रस्य स्थानात्समीपतरपातस्थानवशेन शुक्रस्य स्पष्टशरस्य कलारूपस्य त्रयोदशांशमिताभिः घटिकाभिः प्राक्पश्चाद्भवति । प्रकृते समये शुक्रस्योर्ध्वसंपातः शुक्रापृष्ठतस्तिष्ठति । अतः समकलयुतिकालाप्रागेवैकया घटिकया युतिमध्यो भवेत् । रविशुक्रयोः परमलंबनयोरंतरस्य २३". ० अल्पत्वालंबननतिसंस्कारावुपेक्षणीयौ । अथ रोहिणीशकटभेदसमयः ।। सदलरामयुगांशमिते ग्रहे यदि खतिथ्यधिको यमदिक्शरः । स शकटं च भिनत्ति विधुः सदादितिभतोऽष्टम भेषु तमे स्थिते ॥२॥ सार्धत्रिचत्वारिंशदंशमिते आहे यदि तस्य दक्षिणशरः १५० कलाभ्योऽधिकः स्यात्तदा स रोहिणीशकटं भिनत्ति । शेषं सुगमम् । इति श्रीरामकृष्णसुतवेंकटेशविरचितायां केतक्यां युत्यधिकारः सप्तमः ॥ ७ ॥ अथ लोपदर्शनाधिकारः । पूर्णेशाः खशरेंदवः खगिरिशाः पूर्णग्रहाः षड्रसाः पूर्णग्रामवसुंधरा विघटिकाश्चंद्रादिनाकेसदाम् । एतावद्विवरं रविद्युचरयोरस्तोदये स्यात्कदा तज्ज्ञात्वा तिथिपत्रतो विगणयेत्तत्कालखेटापमम् ॥ १ ॥ लंबज्यकाखेटदिनज्ययोर्या हतिस्तया प्रोक्त विनाडिकाः स्युः । भक्ताः स्फुटास्तत्ममितांतरं स्याद्यदा स कालो गणितेन साध्यः २ भास्कराचरयोरुदयास्तौ यदिने स्फुटपलांतरितौ स्तः । तदिने प्रकटनं विलयो वा खेचरार्कविवरयंचये स्यात् ॥ ३॥ लोपदर्शनपलानि चंद्रस्य ११०, भौमस्य १५०, बुधस्य ११०, गुरोः ९०, शुक्रस्य ६६, शनेः १३० । रविग्रहयोरुदययोरस्तयोर्वोऽतरं स्वस्वपलैः समं कदा भवति तद्दिनं पंचांगस्थग्रहेभ्यो विज्ञाय तत्कालभवखेटस्य त्रिप्रश्नाधिकारोक्तरीत्या स्फुटक्रांतिः साध्या । ततोऽभीष्टे ग्रामे येऽक्षांशास्तथाऽभीष्ट, प्रहस्य येक्रांत्यंशास्तयोः कोटीज्ययोर्वधेन तद्ग्रहस्य पलानि विभज्य स्फुटपलानि साध्यानि । सूर्यग्रहयोरुदयकालयोरस्तकालयोर्वीऽतरं यस्मिन् दिने स्फुटपलैः समं स्यात्तदिने ग्रहस्य लोपो दर्शनं वा भवेत् । सूर्यग्रहयोरंतरे वर्धमाने