पान:केतकी ग्रहगणितम् ।.pdf/74

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

सूर्यग्रहणाधिकाराः। अत्रैकादश्यां घटिकायां सूर्यचंद्रयोः पूर्वापरं स्फुटमंतरं - ४६.६, चंद्रस्य स्फुटः शरः - १६.७, अनयोर्वर्गौ २१७१.५६, २७८.८९, वर्गयोर्योगः २४५०.४५, अस्मात्पदं ४९.५ । इदं सूर्यचंद्रयोर्मध्यबिंदोः परस्पराभ्यामंतरं, अस्मात्सूर्यचंद्रयोर्मानैक्यखंडे ३२.७ विशोधिते जनितं शेषं + १६.८ तयोबिंबप्रांतयोर्मध्यगतमंतरं । अस्य धनत्वादुक्तकाले बिंबशुद्धिः स्यात् । अनयैव रीत्या त्रयोदश्यां घटिकायां बिंबप्रांतयोर्मध्येऽतरं - ०.६ उत्पद्यते । अस्यर्णत्वात् त्रयोदश्यां घट्यां कलार्धप्रमाणो ग्रासः स्यादिति सिद्धम् । उपरितनान्न्यासात्स्पर्शमध्यमोक्षाणां कालानयनं विदुषां सुकरं सदपि सामान्यगणकानामुपयोगाय सूत्राण्यवश्यानि । स्पर्शादिकालानयनम् । ग्रासात्याथमिकाद्विनाच्छुद्धिग्रासैक्यभाजितात् । लब्ध्योनिता ग्रस्तनाडी स्पर्शकालं प्रदर्शयेत् ॥ १२ ॥ ग्रासात्तथांतिमाद् द्विवाद ग्रासशुद्ध्यैक्यभाजितात् ॥ लब्ध्यान्विता ग्रस्तनाडी मोक्षकालं प्रदर्शयेत् ॥ १३ ॥ दर्शात्मागंतरं द्विघ्नं प्राक्परैक्येण भाजितम् ॥ लब्ध्या प्राङ्नाडिका युक्ता दर्शकालं समादिशेत् ॥ १४ ॥ पंचमे न्यासे प्रथमं ग्रास ०.६ द्विघ्नं १.२, शुद्धिः १६.८ प्रासः ...६, एतयोरैक्येण १७.४ भक्त्वा लब्धेन घटीरूपेण .०७ अथवा .१ अनेन प्रस्तनाडी १३ रहिता जातः स्पर्शकालः घ. १२.९ अंतिम ग्रासं १३.० द्विघ्नं २६.०; इमं ग्रासः १३.० शुद्धि : ७.० अनयोरेक्येण २०.० भक्त्वा लब्धेन घ. १.३ प्रस्तनाडी १९ युता जातो मोक्षकालः घ. २०.३ । पंचमे न्यासे ऋणचिन्हितमंतिमं प्रागंतरं १४.५ द्विघ्नं २९.० प्राक्परै. क्येण १४.५+ १.१ = १६.६ भक्त्वा लब्ध्या घ. १.९ प्राइनाडिका १६ सहिता जातो गोचरदर्शकालो ग्रहणमध्यकालो वा घ. १६.९ । औदयिकचंद्रबिंबाखमध्यगतचंद्राबबं कलाधमात्रं पृथतरं दृश्यते तत्र द्रष्टुः सांनिध्याधिक्यात् । अतो गहणमध्यकालीनं चंद्रबिंबमानीय तद्वशेन मर्दकालानयनं सूक्ष्मतरं स्यात् ॥