पान:केतकी ग्रहगणितम् ।.pdf/56

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

- केतकी. १०.४, शनिशरः + २०.७ एतान् संगुण्य लब्धानिग्रहाणा मार्भकाले दास्यमानानि शरसंस्कारपलानि क्रमेण भौ. – २, बु. - १०, गु. + ४, शु. +६, श. + ११ । अनंतर सायनग्रहं सायनसूर्य प्रकल्प्य भौमादीना माक्षकाला आनीताः । भौभस्य घ. १०१। बुधस्य घ. १।४८, गुरोः घ. ४।५५ शुक्रस्य घ. ०३१ शनेः घ. ३१।२७। एते स्वस्वशरसंस्कारपलैः संकृता जाताः स्फुटाक्षेकालाः भौमस्य घ. ९।५९, बुधस्य घ. ११३८, गुरोः घ. ४।१९ शुक्रस्य घ. ०।३७, शनेः घ. ३११३८ । प्राक् पंचविंशतितमश्लोकेन साधितानि चराणि, इदानीं साधिताः स्फुटाक्षकालाः अभ्यामभीष्टग्रहस्य उदयमध्यास्तकालाःसिध्यति । ग्रहाणां उदयमध्यास्तकालाः। नभश्चरस्य स्फुट आक्षकालश्चरस्फुटश्चौदयिको भवेत्सः । ततो रवेरौदयिकाक्षकालं त्यजेद्ग्रहस्यौदयिकाक्षकालात् ॥ २९॥ शेषं ग्रहस्योदयनाडिका सा दिनार्धयुम् लंघननाडिका स्यात् । दिनप्रमाणेन युतास्तनाडी विधोस्तु तत्कालभवाक्षेकालात्॥३०॥ स्फुटार्भकालश्चरपलैः संस्कृतः सन् ग्रहस्य क्षितिजोदयसमये गोचर आर्भ कालो भवति । एवमभीष्टग्रहस्यौदयिकाक्षकालात्सूर्यस्यौदयिकाङ्क्षकालेऽपनीते शेष ग्रहस्योदयकालो भवति । ग्रहस्योदयकालः तस्यैव दिनार्धन युतो याम्योतरलंघनकालो भवति । दिनमानेन युतोऽस्तकालो भवतीति सुगमम् । उदाहरणम् । सायनसूर्यः रा. ०।११।२९।१७ अस्मादाक्षकालः घ. १४४६ चरेण ऋ. ०१२ संस्कृतो जातः सूर्यस्यौदयिकाक्षकालः घ. ११३४ 1 एवं भौमादीनां स्फुटा आक्षकालाः घ. ९।५९, घ. १।३८, घ. ४।५९, घ. ०।३७, घ. ३११३८, स्वस्वचरपलैः - ६७, - १६, - ३९, -४, + १२ संस्कृता जाता औदयिकाक्षकालाः भौमस्य घ. ८।१२, बुधस्य घ. १।२२, गुरोः घ. ४।२०, शुक्रस्य घ. ०३३, शनेः घ. ३१।२६ । भौमस्यौदयिकाःकालः घ. १९२ सूर्यस्यौदयिकाक्षकालेन घ. १।३४ रहितो जातो भौमस्योदयकालः सूर्योदयात् घ. ७१८, अयं भौमदिनार्धन घ. १६४७ युतो जातो भौमस्य याम्योत्तरलंघनसमयः घ. २३।२५, अयं नपुदिनदलेन घ. १६।७ युतो जातो भौमस्यास्तकालः घ. ३९।२२ ।